________________
गणककुमुदकौमुदीटीकासमेतम् । (६५)
स्थित्या ४ । ३२ युक्तो जातो मोक्षकालः १६ । १० स एव पर्वान्तकालः ११ । ३८ मोक्षमर्दन १ । ५२ युक्तो जात उन्मीलनकालः १३ । ३० स्पर्शकालः ७ । ० मोक्षकालः १६ । १० अनयोर्द्वयोरन्तरम् ९ । १० जातस्पर्शमोक्षयोरन्तरकालः घट्यादिः पुण्यकालग्रहस्थितिः ॥ १३॥
अथ वलनानयनमुपजातीन्द्रवज्रोपजात्याहखाङ्का ९० हतं स्वद्युदलेन भक्तं स्पर्शे विमुक्तौ च नतं लवाः स्युः । तज्ज्याहताश्वाक्षलवा विभक्तास्त्रिभज्यया प्रागपरे नते स्यात् ||१४|| सौम्यान्तकाशा वलनं ग्रहस्य युक्तायनांशस्य तु कोटिजीवा बाणैर्विभक्तायनदिक्तथान्यद्भागाद्यमेकान्यदिशोस्तयोस्तु || १५ || योगान्तरज्याहतमानयोगखण्डं त्रिभज्याहृतमङ्गुलाद्यम् । स्फुटं भवेत्तइलनं वीन्द्रोः प्राग्ग्रासमोक्षे विपरीतदिके ॥ १६ ॥ स्पर्शविमुक्ते मोक्षे च यन्नतं तत्खाद्धैर्नवतिभिः ९० स्वदिनार्द्धेन चन्द्रग्रहणे रात्र्यर्द्धेन रविग्रहणे दिनार्द्धन भक्तं नतांशाः स्युः, तेषां नतांशानां ज्यया गुणिताः स्वदेशाक्षांशास्त्रिज्यया विंशत्युत्तरशतेन १२० भक्ता लब्धं स्पर्शमोक्षवलनमंशादिः स्यात्, पूर्वनते प्राक्कपाले सौम्यं वलनम्, अपरनते प्रत्यक्कपालेऽन्तकाशं याम्यं वलनम् । अयनांशयुक्तस्य तात्कालिकग्रहस्य वेश्चन्द्रस्य वा कोटिज्या बाणैः पञ्चभिर्भक्ता
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com