________________
(१२४) करणकुतूहलम् । भागस्थाः षड्राशयो न्यूना इति अधिकोनताज्ञेया नत्वकानां संख्यायाः प्राङ्नतेत्रिभोनं न्यूनमेव भवति पश्चिमनतेवित्रिमधिकमेव भवत्येतत्सर्व सूर्यग्रहणे व्याख्यातं पायो यो यत्र राशौ भवति तस्मादयेतनाः षडधिका राशयस्तत्पृष्ठषड्राशय ऊना एवेति भावः । एवं लम्बनसंस्कृतः स्फुटो भवति स एव सायनः लम्बनसंस्कृतकालान्यूनं वित्रि लग्नं कृत्वा नतांशाः कर्तव्यास्तन्नतांशान शीघ्रग्रहस्य मध्यगतिपञ्चदशांशेन सङ्कण्य त्रिज्यया विभजेत्सा कलादिका नतिः सा पुनः साईद्वयेन भक्ता सत्यङ्गुलादिनतिभवति तया चन्द्रशरः संस्कार्यः। उक्तं च "दृक्क्षेप इन्दोनिजमध्यभुक्तिस्तिथ्यंशनिघ्नौ त्रिगुणोद्धृतौ तौ।नती रवी न्टोरिति” । यथा युतिसमये रविरात्रिशेषघटी १४।५६प्रमाणः लम्बनार्थमेतत्कालीनसूर्यः१।२।५१।५४इष्टकाल :१४।५६ अयनलग्नं तच्छुद्धसूर्यात्साध्य नतु कल्पितकान्तिस्तच्छुद्धसूर्यात्सुखार्थमुत्क्रमलग्नं सायनम् ९ । २६ । २ । ३९ अस्य क्रान्तिः१० । २० । १६ दक्षिणा नतांशाः ३४।५५।२५ उन्नतांशाः ५५। ४ । ३५. उन्नतज्या ९८।५ मन्दो गुरुस्तेन सूर्यः कल्पितः शीघ्रः शुक्रः सचन्द्रः सायनो युतिसमयिको गुरुः । ४ । ५२ । २५ वित्रिभम् ६ । २६ । २१ । ३९ अनयोरन्तरम् ५। ८ । ३० । ४६ भुजः • । २१ । २९ । १४ सप्ताइय इत्यनेन मध्यमलम्बनम
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com