SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ ( ११४) करणकुतूहलम् । प्राक्शुक्लपक्षे परतश्च कृष्णे केन्द्राद्विभां तद्वलनाप्रसूत्रे । कृत्वा विभाग्रे स्वभया च वृत्तं ज्ञेयेन्दुखण्डाकृतिरेवमत्र ॥ ४॥ इतीह भास्करोदिते ग्रहागमे कुतूहले । विदग्धबुद्विवल्लभे शृङ्गोन्नतिप्रसाधनम् ॥७॥ समायां भूमौ कागदे पट्टे वा षडङ्गलेन सूत्रेण कर्नाटकेन वा चन्द्रबिम्बं कृत्वा तस्मिन्बिम्बे प्रागपरादिक्चिह्नं कृत्वा प्रागानीतं वलनं यथादिशं देयं तच्च शुक्लपक्षे प्राग्भागे देयं कृष्णपक्षे पश्चिमभागे ततो यत्र वलनायं ततः केन्द्राभिमुखं सूत्रं प्रसार्य्य तस्मिन्सूत्रे विज्ञासूत्रकं देयं तस्मिन्वलनायसूत्रे केन्द्राद्वलनायगा विभा देया, एवं कदाचिद्विम्बमुल्लिख्य दूरे:पि विभासूत्रं भवति तस्माद्विनाग्रस्थस्वभामिते कर्नाटकेन वृत्तं कर्तव्यमस्माद्वृत्ताहि तमिन्दुमण्डलमिन्दुखण्डाकृतिश्चेति ज्ञेयं यदिकं वलनं तदिक्स्थं शृङ्ग नीचं ज्ञेयमन्यदिक्स्थमुनतं विद्धि जानीहीत्यर्थः । अथ कश्चिद्विशेषः यदा षडङ्गलाधिका विभा भवति तदा केन्द्राद्वलनाग्ररेखाभिमुखं विभाप्रमाणेन भूमौ वा पट्टे विनाचिर्ने कार्य ततस्तस्य प्रभाप्रमाणेन वृत्तं कार्यमित्येतत् प्रायः शुक्लाष्टमीदिने न भवति । अमावास्यायां चन्द्रार्कयोरेकत्वाद्विभाया अभावः षडडला स्वभा भवति, अष्टम्यामष्टादशाङ्गला विना स्वभा च भवति यत्र तत्र कोटेरभावस्तदा हाराभावः प्रायस्तत्र याम्यं वलनं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034533
Book TitleKaran Kutuhalam
Original Sutra AuthorN/A
AuthorBhaskaracharya
PublisherKshemraj Krishnadas
Publication Year1902
Total Pages160
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy