SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ गणककुमुदकौमुदीटीकासमेतम् । (१११) अथ शृङ्गोन्नत्यधिकारोव्याख्यायते तत्रादौ वलनसाधनमुपजात्या सार्द्धन्द्रवज्रयाह क्रान्तः कलाः सायकसंस्कृतेन्दोः सषड्सूर्यायमसंस्कृतास्ताः । व्यर्केन्दुदोागुणितैः पलांशैः खाऊद्धतेरप्यथ संस्कृताश्च ॥ १ ॥ व्यर्केन्दुदोराशिभिरिन्द्रियभक्ता भवेयुर्वलनाडुलानि ॥ अत्र चन्द्रार्कयोदक्षिणोत्तरमन्तरं भुजःपूर्वापरमन्तरं कोटिरनयोरन्तरं तिर्यक्करण एवं व्यस्रक्षेत्रं शृङ्गोन्नतिसाधनहेतुकं कृष्णपक्ष औदयिकस्य शुक्लपक्षेऽस्तकालीनस्य चन्द्रस्य, उक्तं च-"मासान्तपादे प्रथमेऽथवेन्दोः शृङ्गोन्नतिर्यदिवसेऽवगम्या। तदोदयेऽस्ते निशि वा प्रसाध्य” इति तस्य चन्द्रस्य कलादिका क्रान्तिः कलादिना शरेण संस्कृता भिन्नदिक्त्वे वियुक्तैकदिक्त्वे युक्ता तदौदयिकस्य तात्कालिकस्य वा राशिषट्कयुतस्य सूर्यस्य क्रान्त्या पूर्ववत्संस्कृता सषडः कस्माक्रियते तदुच्यते उभयोः क्रान्त्योरेकदिश्यन्तरमन्यदिशि योग एवं कृत उभयोदक्षिणोत्तरमन्तरमुत्पद्यतेऽत्रैकदिशि योगोऽन्यदिश्यन्तरमित्युक्तं तत्सार्थक्यकरणाय सषडः कृतः सष, कते दिगन्यत्वं भवतीत्यतः सषडः कृतः अथार्केण हीनस्य चन्द्रस्य (जज्ययाक्षांशा गुणिताः खाकै १२० भक्ता लब्धेन पूर्ववत्संस्कृताक्षांशवशेन दिक् । अथ रविहीनचन्द्रस्य भुजराशयः पञ्च ५ गुणास्तैः सर्वसंस्कारसंस्कृता चन्द्रक्रान्तिर्भाज्या लब्धमडुलायं वलनं भवति क्रान्तेर्या दिक् सा वलनस्यापि ज्ञेया । यथा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034533
Book TitleKaran Kutuhalam
Original Sutra AuthorN/A
AuthorBhaskaracharya
PublisherKshemraj Krishnadas
Publication Year1902
Total Pages160
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy