________________
गिरनारना लेख नं. ६ तस्य सुधारहस्य कवितानिष्ठः कनिष्ठः कृती बंधुबंधुरबुद्धिबोधमघुरः श्रीवस्तुपालाभिधः ॥ ज्ञानांभोरुहकोटरे भ्रमरतां सारंगसाम्यं यशः सोमेऽशौरितुलां च यस्य महिमक्षीरोदधौ स्वंदधौ ॥ ६ ॥ इंदुबिंदुरपां सुरेश्वरसरिडिंडीरपिंडः पतिर्भासां विद्रुमकंदलः किलविभुः श्रीवत्सलक्ष्मा नभः ॥ कैलासत्रिदशेभशंभुहिमवत्प्रायास्तु मुक्ताफलस्तोमः कोमलवालुकास्य च यशः क्षीरोदधौ कौमुदी ॥ ७ ॥ हस्तानन्यस्तसारखतरसरसनप्राप्तमाहात्म्यलक्ष्मीस्तेजःपालस्ततोसौ जयति वसुभरैः पूरयन् दक्षिणाशां ॥ यहुद्धिः कल्पि[-] द्विपगहनपरक्षोणिभृद्धिसंपल्लोपामुद्राधिपस्य स्फुरति लसदिनस्फारसंचारहेतुः ॥ ८॥ पुण्यश्री वि मल्लदेवतनयोभूत्पुण्यसिंहो यशोवर्यः स्फूर्जति जैत्रसिंह इति तु श्रीवस्तुपालात्मजः ॥ तेजःपालसुतस्त्वसौ विजयते लावण्यसिंहः स्वयं यैर्विश्वे भवदेकपादपि कलौ धर्मश्चतुष्पादयं ॥ ९ ॥ एते श्रीनागेंद्रगच्छे भट्टारकश्रीउद[यप्रभ ]सुरीणां ॥ स्तंभतीर्थेत्र कायस्थवंशे वाजडनंदनः ।। प्रशस्तिमेतामलिखत् जैत्रसिंहध्रुवः सुधीः ॥ १ ॥ वाहडस्य तनुजेन सूत्रधारेण धीमता ॥ एषा कुमारसिंहेन समुत्कीर्णा प्रयत्नतः ॥ २ ॥ श्रीनेमेस्त्रिजगद्भर्तुरम्बायाश्च प्रसादतः ॥ वस्तुपालान्वपस्यास्ति प्रशस्तिः स्वस्तिशालिनी ॥३॥ श्रीवस्तुपालप्रभोः प्रशस्तिरियं निष्पन्ना ॥ शुभं भक्तु ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com