________________
४३ ] पञ्चदशनक्षत्राणि त्रिंशन्मुहूर्तानीति जातानि सर्वसंख्यया मुहूर्तानामष्टाशतानि दशोत्तराणि एतेषां च त्रिंशन्मुहूतैरहोरात्रमिति कृत्वा त्रिंशता भागो हियते लब्धानि सप्तविंशति रहोरात्राणि अभिजिद्भोगश्चैकविंशति सप्तषष्टीभागा इति तैरप्यधिकानि सप्तविंशतिरहोरात्राणि सकल नक्षत्रमण्डलोपभोगकालो नक्षत्रमासो उच्यते १ चंद्र अवश्चांद्रः कृष्णपक्षप्रतिपदारभ्य यावत् पौसमासी परिसमाप्तिस्तावत् कालमानः स च एकोनत्रिंशदहोरात्राणि द्वात्रिंशत् द्वाषष्टिभागा अहोरात्रस्य २ कर्ममास ऋतुमास इत्येकोऽर्थः स त्रिंशदिवसप्रमाणः ३ आदित्यमासस्त्रिंशदहोरात्राणि रात्रि दिवसस्य चाई दक्षिणायनस्यो उत्तरायणस्य वा षष्टभागमान इत्यर्थः ४ अभिवद्धि तो नाम मुख्यतस्त्रयोदशचंद्रमास प्रमाणः संवत्सरः परं तत् द्वादशभागप्रमाणो मासोऽपि अवयवे समुदायोपचारादभिवद्धितः स चैकत्रिंशदहोरात्राणि चतुर्विंशत्युत्तरशतभागी कृतस्य चाहोरात्रस्स त्रिकहीनं चतुर्विंशतिभागानां भवति एकविंशमिति भावः एतेषां चानयनाय इयं करण गाथा॥ जुगमासेहिं उभइए, जगंमिलद्वं हविज्ज नायव मासाणं पंचन्ह, विषयं राइदियपमाणं॥१॥ इह सूर्य्यस्य दक्षिण मुत्तरं वा अयनं त्र्यशीत्यधिकदिनशतात्मकं द्वि अयने वर्षमिति कृत्वा वर्षे षट्पट्यधिकानि त्रिणि शतानि भवन्ति पञ्चसंत्सरायुगमिति कृत्वा तानि पञ्चभिर्गुण्यन्त जातानि अष्टादशशतानि त्रिंशदिवसानां एतेषां नक्षत्रमासदिवसानेनाय सप्तषष्टिर्युगे नक्षत्रमासा इति सप्तषष्टया भागा ह्रियते लब्धाः सप्तविंशतिरहोरात्रा एकविंशतिरहोरात्रस्य सप्तषष्टीभागाः १ तथा चंद्र नास दिवसानयनाय द्वाषष्टिर्युगे चंद्रमाला इति
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com