________________
तथा लक्ष्य-रूपे कथानके 'अयोध्या प्रत्यागमनं' नाम द्वाविंशः सर्गः-४७१ स्पदं जवं न सहितारः न सहिष्यन्ते । ३१८६। स्यदो जवे ।६।१।२८।' इत्यनु. नासिकलोपो निपात्यते ॥ १५९६-द्रष्टासि प्रीति-मानारात् सखिभिः सह सेविताम् ॥
स-पक्षपातं किष्किन्धां पूर्व-क्रीडां स्मरन् मुहुः॥६॥ द्रष्टासीत्यादि-किष्किन्धां च आरात् नातिदूरे द्रष्टासि । प्रीतिमान् जात. प्रीतिः सन् सखिभिर्मित्रैः सह सेवितां अनुभूतां एवं च कृत्वा पूर्वक्रीडां स्मरन् मुहुः । शेषत्वेन विवक्षितत्वात् षष्ठी न भवति । सपक्षपातं सानुरागमिति क्रियाविशेषणम् ॥ १५९७-त्वया सन्दर्शितारौ ते माल्यवद्-दण्डकाबने, ॥
उपद्रुतश् चिरं द्वन्द्वैर् ययोः क्लिशितवानहम्.॥७॥ त्वयेत्यादि-माल्यवान् पर्वतः दण्डकावनं दण्डकेति नामारण्यं ते त्वया सन्दर्शितारौ । कर्मणि लुट् । ययोर्माल्यवद्दण्डकावनयोः व्यवस्थितैः द्वन्द्वैः सीतावियोगदुःखैः चिरमुपद्रुतोऽभिभूतः सन् अहं क्लिशितवान् पीडामनुभूतवान् । '३०४९। क्लिशः क्त्वानिष्ठयोः ।७।२।५०।' इतीद । '३३२३॥ मृडमृद-1१।२।७।' इत्यादिना कित्त्वम् ॥ १५९८-आप्तारौ भवता रम्यावाश्रमी हरिणा ऽऽकुलौ ॥
पुण्योदक-द्विजाऽऽकीर्णो सुतीक्ष्ण-शरभङ्गयोः॥८॥ आप्तारावित्यादि-सुतीक्ष्णशरभङ्गयो रम्यावाश्रमौ हरिणाकुलौ पुण्यैरुद. कैर्द्विजैः पक्षिमिश्वाकीौँ भवता आप्तारौ प्राप्तव्यौ ॥ १५९९-अतिक्रान्ता त्वया रम्यं दुःखमत्रेस् तपो-वनम् , ॥
__ पवित्र-चित्रकूटे ऽद्रौ त्वं स्थातासि कुतूहलात्.॥९॥ अतिक्रान्तेत्यादि-अत्रेश्च तपोवनं रम्यत्वात् त्वया दुःखमतिक्रान्ता अतिक्रमितव्यम् । चित्रकूटे चाद्रौ पवित्रे पुण्ये कुतूहलात् त्वं स्थातासि ॥ १६००-ततः परं भरद्वाजो भवता दर्शिता मुनिः, ॥
द्रष्टारश् च जनाः पुण्या यामुनाऽम्बुक्षतांऽहसः ॥ तत इत्यादि-ततः चित्रकूटात्परं गच्छता भवता भरद्वाजो मुनिर्दर्शिता द्रष्टव्यः । जनाश्च पुण्याः यामुनाम्बुक्षतांहसः यमुनाजलस्य नानापानाच्च क्षपितपापाः द्रष्टारो द्रष्टव्या वा । चिण्वदिद च ॥ १६०१-स्यत्वा स्यन्वा दिवः शम्भोर्
मूर्ध्नि स्कन्वा भुवं गताम् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com