________________
४७० भट्टि-काव्ये-चतुर्थे तिङन्त-काण्डे लक्षण-रूपे नवमो वर्गः,
- द्वाविंशः सर्गः। इतः प्रभृति लुटमधिकृत्य विलसितमाह-तन्त्र भविष्यदनद्यतने लुट् ॥ १५९१-ततो रामो हनूमन्तमुक्तवान् हृष्ट-मानसम् ॥
'अयोध्यां श्वः प्रयातासि कपे! भरत-पालिताम्. ६ तत इत्यादि-ततः सीतासंशोधनानन्तरं रामो हनूमन्तं हृष्टमानसं स्वामिकार्यस्य निष्पादितत्वात् उक्तवान् । हे कपे! श्वोदिने अयोध्यां भरतपालितां प्रयातासि गन्तासि । २१९१ तासस्त्योर्लोपः ।७।४।५० ॥ १५९२-गाधितासे नभो भूयः स्फुटन्-मेघ-घटाऽऽवलि, ॥
ईक्षितासे ऽम्भसां पत्युः पयः शिशिर-शीकरम्. २ गाधितास इत्यादि-भूयः पुनरपि नभः गाधितासे प्रस्थातासे । 'गाधु प्रतिष्ठालिप्सयोः' इत्यनुदात्तेत् । त्वद्गमनवातात् स्फुटन्त्यः खण्डशो भवन्त्यः मेघघटा मेघपडयो यत्र नभसि । अम्भसा पत्युः समुद्रस्य पयः शिशिरशीकरं ईक्षितासे द्रष्टासि ॥ १५९३-सेवितासे प्लवङ्ग ! त्वं महेन्द्रा ऽद्रेरधित्यकाः॥
___ व्युत्क्रान्त-वफ्नो भानोः सह-ज्योत्स्ना-कुमुद्वतीः.३ सेवितास इत्यादि हे प्लवङ्ग! भानोरादित्यस्य व्युत्क्रान्तवर्मनः अत्युचत्वादतिक्रान्तमार्गस्य महेन्द्राद्रेः अधित्यकाः उपरिभागान् । कुमुदतीः विद्य. मानकुमुदाः सह ज्योत्स्नया । पश्चाद्विशेषणसमासः। सज्योत्सा वा कुमुदत्यः कुमुदाकरा यासु अधित्यकासु तास्त्वं सेवितासे अनुभवितासि । प्लवं गच्छतीति खच्, प्लवं गच्छतीति कर्तरि अच् वा । 'उखउखी'त्यत्र वगिः पश्यते ॥ १५९४-चन्दन-द्रुम-संच्छन्ना निराकृत-हिमश्रथाः॥
दर्शितारस् त्वया ताश् च मलयोपत्यकाः शुभाः.४ चन्दनेत्यादि-ताश्व पूर्व दृष्टाः मलयोपत्यकाः मलयासन्नाः भुवः शुभाः चन्दनदुमसंच्छन्नत्वात् । निराकृतहिमश्रथाः तिरस्कृतचन्द्राः । त्वया दर्शितारः श्वो द्रष्टव्याः । कर्मणि लुट् । चिण्वदिन चेति सकारलोपः । हिमं श्रश्नाति मुञ्चतीति हिमश्रथः चन्द्रः । श्रन्थ सेचनप्रतिहर्षयोः' इति कर्मण्यण् १३१८५) भवोदैध-६।४।६९।' इत्यादिना अनुनासिकलोपो निपात्यते ॥ १५९५-प्रतन्व्यः कोमला विन्ध्ये सहितारः स्यदं न ते ॥
__ लताः स्तबक-शालिन्यो मधुलेहि-कुलाऽऽकुला:. ५ प्रतन्व्य इत्यादि-विन्ध्ये लताः स्तबकशालिन्यः सकुसुमतबकोपेताः मधुलेहिकुलाकुलाः भ्रमरकुल सङ्घलाः प्रतनुत्वात् कोमलत्वाच्च । गच्छतस्ते तव १३२-३४७। उपत्यका ऽदेरासन्ना भूमिरूलमधित्यका।' इत्यमरसिंहः ।
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com