________________
तथा लक्ष्य-रूपे कथानके 'सीता-प्रत्याख्यानं' नाम विंशतितमः सर्गः-४६१ मम कृताकृतं युक्तायुक्तं बुध्यस्य अवगच्छ । अत्र प्रार्थनायां लोट् । पूर्वत्र '२०२६। समुच्चयेऽन्यतरस्याम् ।३।४।३।' इति तस्य च यथायोगं हिस्वादेशः। वसन्निति '२८२८। समुच्चये सामान्यवचनस्य ।३।१५।' इत्यनुप्रयोगः । विद्यमानादीनां वसतः सामान्यवचनस्यानुप्रयोगात् ॥
एवं पृथिव्यादीनि महाभूतानि कथयित्वा लक्षणमाह१५६४-चितां कुरु च सौमित्रे! व्यसनस्या ऽस्य भेषजम् , ॥
रामस् तुष्यतु मे वा ऽद्य, पापां प्लुष्णातु वा ऽनलः ३४ चितामित्यादि-हे सौमित्रे ! व्यसनस्यास्य मिथ्यादूषणस्य भेषजं प्रतिक्रियां चितां कुरु । विधौ लोट । मम अग्नौ विशुद्धाया रामो नियोगतस्तुप्यतु । अनलो वा मां पापां नियोगतः प्लुष्णातु दहतु । दहन मर्त्यलोकान्मोचयस्वित्यर्थः । निमन्त्रणे लोट् । 'प्लुष पुष स्नेहन-मोचन-पूरणेषु' इति त्यादिः मोचने द्रष्टव्यः । अनेकार्थत्वाद्दाहे ॥ १५६५-राघवस्य मतेना ऽथ लक्ष्मणेनाऽऽचितां चिताम् ॥
दृष्ट्वा प्रदक्षिणीकृत्य रामं प्रगदिता वचः ॥ ३५॥ राघवस्येत्यादि-अथ राघवस्य मतेनानुज्ञातेन '६२५। तस्य च वर्तमाने १२।३।६७।' इति षष्ठी । ३०८९। मति-बुद्धि-पूजार्थेभ्यश्च ॥३।२।१८८।' इति वर्तमाने क्तः । तस्य वा मतेनानुज्ञया चितामाचितां रचितां दृष्ट्वा प्रदक्षिणीकृत्य सीतां रामं प्रगदिता वचो गदितुं प्रवृत्ता ॥ १५६६-प्रवपाणि वपुर् वह्नौ रामा ऽहं शङ्किता त्वया, ॥
सर्वे विदन्तु शृण्वन्तु भवन्तः स-प्लवङ्गमाः ॥३६॥ प्रवपाणीत्यादि-येऽत्र सन्निहिता देवादयः ते सर्वे सप्लवङ्गमाः वानरैः सह भवन्तः विदन्तु चेतसा । शृण्वन्तु श्रोत्राभ्यां मवचनम् । हे राम ! स्वया दुष्टेति शङ्किता अहं वहौ वपुः शरीरं प्रवपाणि नियोगतः प्रक्षिपाणि । निमन्त्रणे लोद । '२२३॥ आनि लोट् ।।४।१६।' इति णत्वम् ॥ १५६७-मां दुष्टां ज्वलित-वपुः प्लुषाण वढे!
संरक्ष क्षत-मलिनां सुहृद् यथा वा, ॥ एषा ऽहं ऋतुषु वसोर् यथा ऽऽज्य-धारा
त्वां प्राप्ता विधि-वदीर्ण-दीप्ति-मालम् ॥ ३७॥ इति भट्टि-काव्ये तिङन्त-काण्डे लोट्-प्रदर्शनो नाम
विंशतितमः सर्गः ॥२०॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratvww.umaragyanbhandar.com