________________
४६० भट्टि-काव्ये-चतुर्थे तिङन्त-काण्डे लक्षण-रूपे सप्तमो वर्गः,
त्वं पुनीहीत्यादि-हे वायो ! पुनीहि पुनीहीति जगत्रयं पुनः पुनः पुनामि भृशं वा पुनामीत्यभिप्रायः । त्वं जगत्रयं पुनन् भूतानां देहेषु चरन् मम बुद्धिविप्लवं बुद्धेरन्यथात्वं विद्धि अवगच्छ । प्रार्थनायां लोट् । पूर्वत्र २८२५। क्रियासमभिहारे लोट-३।४।२।' इति लोट् । लस्य परस्मैपदसम्बन्धी हिरादेशः । क्रियासमभिहारे द्विर्वचनम् । पुनन्निति यथाविध्यनुप्रयोगः । पूर्वस्मिन्नित्यनेन पुनातेरनुप्रयोगः । तत्र हि क्रियासमुच्चयाभावात् ॥ १५६०-खमट, धाममा ऽटौवींमित्यटन्त्यो ऽति-पावनाः ॥
यूयमापो! विजानीत मनो-वृत्तिं शुभां मम.॥३०॥ खमित्यादि-यूयमापोऽतिपावनाः अतिपवित्राः खमट द्यामट उर्वीमट इति वयमन्तरिक्षमटाम देवलोकमटाम भूर्लोकमटामेत्येवमभिप्रायाः सर्वत्राटन्त्यो मम शुभां चित्तवृत्ति विजानीतेति । भन्न प्रार्थनायां लोट् । पूर्वत्र तु आकाशादिकारकभेदात् अनेकाटनक्रियासमुच्चयः । ततश्च '२८२६। समुच्चयेऽन्यतरस्याम् ।३।४।३।' इति लोट । अटेति समुच्चये सामान्यवचनस्येत्यनुप्रयोगः। आकाशाद्युपगामिनी. नामटनक्रियाणां पुनरटन क्रियायाः सामान्याया अनुप्रयोगात् ॥ १५६१-जगन्ति धत्स्व धत्स्वेति दधती त्वं वसुन्धरे!॥
अवेहि मम चारित्रं नक्तं-दिवम-विच्युतम्. ॥३१॥ जगन्तीत्यादि-त्वं वसुन्धरे ! धत्स्व धत्स्वेति अहं पुनः पुनर्दधे भृशं वा दध इति एवमभिप्राया जगन्ति दधती मम चारित्रं नक्तंदिवमविच्युतं अस्खलितमवेहि । अत्र प्रार्थनायां लोट् । पूर्वत्र क्रियासमभिहारे तस्य चारमनेपदसम्बन्धिनः स्वादेशः ॥ १५६२-रसान् संहर, दीप्यस्व, ध्वान्तं जहि, नभो भ्रम,॥
इतीहमानस् तिग्मांऽशो! वृत्तं ज्ञातुं घटस्व मे.॥३२॥ रसानित्यादि-हे तिग्मांशो! स्वमपि अहं रसान् भौमान् संहर संहरा. मीति । दीप्यस्व दीप्ये । ध्वान्तं जहि हन्मि । नभो भ्रम भ्रमामीत्येवमभिप्रायः । ईहमानः जगत्यर्थक्रियासु चेष्टमानः । मम वृत्तं चारित्रं ज्ञातुं घटस्त्र यतस्व । अत्र प्रार्थनायां लोट् । पूर्वत्र २८२६। समुच्चयेऽन्यतरस्याम् ।३।४।३।' इति तस्य च यथायोगं हिस्वादेशः । ईहमान इति २०२०। समुच्चये सामान्य. वचनस्य ।३।४।५।' इत्यनुप्रयोगः। संहरेत्यादीनामीहतेः सामान्यवचनस्यानुप्रयोगात् ॥ १५६३-स्वर्गे विद्यस्व, भुव्याऽऽस्व,भुजङ्ग-निलये भव, ॥
एवं वसन् ममा ऽऽकाश! संबुध्यस्व कृताऽकृतम्.३३ वर्ग इत्यादि-वं चाकाश ! स्वर्गे विद्यस्व अहं विद्ये । भुवि आस्व आसे । भुजङ्गनिलये पाताले भव भवामीत्येवमभिप्रायः सर्वत्र । वसन् तिष्ठन् Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com