________________
तथा लक्ष्य रूपे कथानके 'विभीषण-प्रलापो' नामाष्टादशः सर्गः- ४३७
भजन्तीत्यादि-अन्यच्च ये स्वामिनो मदादवलेपात् न्यायवादिनां माल्यवत्प्रभृतीनां मदे नावतिष्ठन्ते । '२६८९। समव-प्र-विभ्यः स्थः ।।३।२२।' इति तङ् । ते पुरुषाः विपदस्तूर्णं भजन्ति अवसाद सेवन्ते । भजिरुभयपदी । सम्पदश्चातिकामन्ति त्यजन्ति ॥ १४६३-अ-पथ्यमायती लोभादामनन्त्यनुजीविनः ॥
प्रियं, शृणोति यस् तेभ्यस् , तमृच्छन्ति न सम्पदः.५ अपथ्यमित्यादि-प्रायेण ह्यनुजीविनः प्रहस्तादिसदृशाः । आयतावागामिनि काले वृद्धावस्थायामपथ्यमनिष्टं फलं लोभेन तृष्णया वा प्रियमामनन्ति उपदिशन्ति 'साधु इदम्' इति । तेभ्यो यः शृणोति तं सम्पदो न ऋच्छन्ति । अर्ते ऋच्छादेशः॥ १४६४-प्राज्ञास् तेजस्विनः सम्यक् पश्यन्ति च, वदन्ति च,॥
तेऽवज्ञाता महाराज ! क्लाम्यन्ति, विरमन्ति, च.॥६ प्राज्ञा इत्यादि-ये प्राज्ञाः तेजस्विनः असद्विधाः सम्यगविपरीतं शास्त्रच. क्षुषा पश्यन्ति वदन्ति च सम्यक् । हे महाराज! अवज्ञातास्ते तिरस्कृताः क्लाम्यन्ति खिद्यन्ते । विरमन्ति च विमुखा भवन्ति । तदवज्ञानफलमेतत्' इति भावः ॥ १४६५-लेढि भेषज-वन् नित्यं यः पथ्यानि कटून्यपि, ॥
तदर्थ सेवते चाऽऽप्तान , कदाचिन् न स सीदति.॥७ लेढीत्यादि-यस्तु स्वामी आदौ कटून्यपि पथ्यानि परिणामसुखानि भेषजवदौषधमिव नित्यं लेढि श्रोत्रेन्द्रियेणानुभवति तदर्थं चाप्तानविसंवादिनः सेवते स कदाचिन्नावसीदति इह च परत्र चावसन्नो न भवति ॥ १४६६-सर्वस्य जायते मानः, स्व-हिताच् च प्रमाद्यति, ॥
वृद्धौ भजति चा ऽपथ्यं नरो येन विनश्यति. ॥८॥ सर्वस्येत्यादि-प्रायेण वृद्धौ सत्यां सर्वो जनो मानी सञ्जायते वृद्धेश्चित्तविकारित्वात् । स्वहिताच प्रमाद्यति हिताअष्टो भवति । अपथ्यं च भजति सेवते । येनापथ्येन सेवितेन नरो विनश्यति ॥ १४६७-द्वेष्टि प्रायो गुणेभ्यो यन, न च स्निह्यति कस्यचित् ,
वैरायते महद्भिश् च शीयते वृद्धिमानपि. ॥९॥ द्वेष्टीत्यादि-यद्यस्मादृद्धौ सत्यां प्रायेण गुणेभ्यः वृद्धसेवित्वादिभ्यः प्रभु द्वेष्टि । '५७५। क्रुध दुह-१॥४॥३७॥' इति सम्प्रदानसंज्ञा । न च कस्यचित् सिह्यति प्रीयते । महद्भिश्च सह वैरायते वैरं करोति '२६७३। शब्द-वैर॥३॥११॥' इति क्यङ् । तस्मात्कारणात् वृद्धिमानपि शीयते विनश्यति । शदे शिति शीयादेशः । २३६२। शदेः शितः ।।३।६०' इति तक् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com