________________
३८६ भट्टिकाव्ये-चतुर्थे तिङन्त-काण्डे लक्षण-रूपे द्वितीयो वर्गः,
न्तस्य रूपम् । तं द्रुमं प्राप्तमरिः कुम्भकर्णः प्रासहिष्ट प्रसहते स्म । शक्तिं चोग्रां प्राणहरामुदाहीत् उद्गृहीतवान् ॥ १२३४-स तामबिभ्रमद् भीमां,
वानरेन्द्रस्य चा ऽमुचत् ॥ प्रापप्तन् मारुतिस् तत्र
तां चा ऽलासीद् वियद्-गताम्. ॥ ५३ ॥ स तामित्यादि-तां गृहीतां शक्तिं स कुम्भकर्णः अबिभ्रमत् भ्रमयति स्म। भ्रमेयॆन्ताच्चङि रूपम् । वानरेन्द्रस्य सुग्रीवस्योपरि अमुचत् मुक्तवान् । लुदित्त्वा. दङ् । तत्र तस्यां मुक्तायां मारुतिर्हनूमान् प्रापप्तत् प्रत्युपस्थितः । लुदित्वादछ । '२३५५। पतः पुम् ।७।४।१९।' इति पुमागमः। तां च वियद्गतामलासीत् आप्तवान् । '११३२॥ ला आदाने ।' '२३७७) यम-रम-७।२।७३।' इति सगिटौ ॥
युग्मम्१२३५-अशोभिष्टाऽचखण्डच् च
शक्तिं वीरो, न चा ऽयसत्. ॥ लौह-भार-सहस्रेण
निर्मिता निरकारि मे ॥ ५४॥ अशोभिष्टेत्यादि-असौ गृहीतशक्तिर्वीरः अशोभिष्ट शोभते स्म । शक्तिम. चखण्डच्च भग्नवान् । '१६९४।९५। खड खडि भेदने' चौरादिकः । तां च खण्ड. यन्नायसत् नायस्यति स । १२८६। यसु प्रयत्ने ।' पुषादिः । लौहभारसहस्रेण निर्मिता घटिता मम शक्तिर्निरकारि भन्ना अनेनेति रक्षः कुम्भकर्णो ऽकुपदिति वक्ष्यमाणेन सम्बन्धः॥ १२३६-शक्तिरत्यकुपद् रक्षो, गिरिं चौदखनीद् गुरुम् , ॥
___ व्यसृष्ट तं कपी-न्द्रस्य, तेनाऽमूछींदसौ क्षतः.॥५५॥ शक्तिरित्यादि-अकुपत् कुपितः। '१३१२। कुप क्रोधे' पुषाादिः। गिरिं च गुरुमुदखनीत् उत्खातवान् । '२२८४। अतो हलादेलघोः ।।२।७।' इति वृद्य. भावपक्षे रूपम् । कपीन्द्रस्य सुग्रीवस्योपरि तं च गिरि व्यसृष्ट विसृष्टवान् । 'सृज विसर्गे' अनुदात्तेत् । तस्माद्धलन्तादात्मनेपदे सिचः कित्त्वे गुणाभावः । असौ कपीन्द्रस्तेन क्षतः हतः सन् अमूर्चीत् मोहमुपगतः ॥ १२३७-अलोठिष्ट च भू-पृष्ठे, शोणितं चा ऽप्यसुनुवत्, ॥
तमादायाऽपलायिष्ट, व्यरोचिष्ट च राक्षसः॥५६॥ अलोठिष्टेत्यादि-मूछितश्च भूपृष्ठे अलोठिष्ट लुठते स्म । 'रुठ लुठ प्रतिघाते' इति दुतादिः । २३४५। धुन्यो लुङि ।।३।९।' इति परस्मैपदविका Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com