________________
भट्टिकाव्ये - प्रथमे प्रकीर्णकाण्डे लक्षण-रूपे प्रथमो वर्गः, ८ - अन्तर् - निविष्ट्रोज्ज्वल-रत्न -भासो गवाक्ष - जालैरभिनिष्पतन्त्यः ॥ हिमाद्रि - टङ्कादिव भान्ति यस्यां गङ्गाऽम्बु -पात- प्रतिमा गृहेभ्यः ॥
अन्तरित्यादि - भन्तर्गृहमध्ये निविष्टानि निहितान्युज्वलरत्नानि यानि तेषां भासो रश्मयो गृहेभ्यो गवाक्षजालैरभिनिष्पतन्त्यो निर्गच्छन्त्यो यस्यां भान्ति तामध्यास्तेति योज्यम् । पर्वतस्योन्नतप्रदेशष्टङ्क इत्युच्यते । तस्माद्धिमवत्पर्वतटङ्कादिव गङ्गाम्बुपातप्रतिमा गङ्गाजलप्रवाहतुल्याः स्वच्छत्वात् ॥
९- धर्म्यासु कामार्थ - यशस्- करीषु मतासु लोकेऽधिगतासु काले ॥ विद्यासु विद्वानिव सोऽभिरेमे पत्नीषु राजा तिसृषूत्तमासु. ॥
धर्म्यास्वित्यादि - धर्मादनपेतासु । ' १६४४ | धर्म-पथ्यर्थ - | ४|४|१२| ' इत्यादिना यत् । कामार्थयशांसि कर्तुं शीलं यासां तासु । '२९३४ । कृजो हेतु|३|२| २०|' इत्यादिना ताच्छील्ये टः । १६० । अतः कृ कमि |८|३|४६|' इत्यादिना विसर्जनीयस्य सत्वम् । टित्वान्ङीप् । मतासु पूजितासु लोके तासां प्रतीतत्वात् । अधिगतासु काले विवाहयोग्ये काले परिणीतासु । सोऽभिरेमे स राजाभिरतवान् । पत्नीषु '४९० । पत्युर्नो यज्ञसंयोगे |४| १|३३|' इति नकारः । तिसृषु कौसल्या कैकेयी सुमित्रासु । उत्तमास्विति सन्नारीगुणैः श्रेष्ठासु । विद्यास्विति विदन्त्याभिर्धर्माधर्माविति विद्याः । '३२७६ । संज्ञायां समज- |३|३|१९|' इत्यादिना क्यप् । तिसृषु सामर्ग्यजुराख्यासु । धर्म्यास्वित्यादिकं तुल्यम् । विद्वानिव । यथाधिगतविद्य इत्यर्थः । '३१०५ | विदेः शतुर्वसुः |७|१|३६|' दीर्घ- हलड्यादि-संयोगान्तलोपाः ॥
तस्य राज्ञः पत्नीभिस्ताभिः सह रममाणस्य सुता नैवासन् । ऋष्यशृङ्गनामा मुनिः पुत्रीयं ऋतुं जानातीति पुरोधसो वसिष्ठादुपश्रुत्य राज्ञा वारविलासिनीभिरानायितो मुनिरित्येतत्कथयितुमाह
१ – '१६४४। धर्म-पर्थ्यर्थ न्यायादनपेते | ४|४|१२| धर्मादनपेतं धर्म्यम् । पथ्यम् । अर्थ्यम् । न्याय्यम् ।' इति वै० भ० ॥ २ - ' इच्छा काला स्पृहेद्दा तृड् वान्छा लिप्सा मनोरथः ।। २२८ । कामोऽभिलाषस् तर्षशू च-' इति ना० अ० ॥ ३ - अत्रोपमालङ्कारः, तल्लक्षणं कुवलयानन्दकारिकायाम् । 'उपमा यत्र सादृश्यलक्ष्मीरुल्लसति द्वयोः, । इंसीव कृष्ण ते कीर्तिः स्वर्र्गङ्गाम् (स्वर्गं गाम् ) अवगाहते'. ॥ ४ – भत्रोपजातिच्छन्दः, तलक्षणं पूर्वो ( २ ) कम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com