________________
तथा लक्ष्ये रूपे कथानके 'विभीषणागमनो' माम द्वादशः सर्गः-३१७ दिकर्मणां अपरेणोपहन्यमानानां रक्षां कर्तुमशक्नुवन् शक्तिहीनत्वात् परं श्रयेत । यमाश्रित्य क्षयस्थानात् ज्ञानवृद्धिमामुयात् । परो द्विविधः अभियोका तद्विशिष्टबलो ऽपरो ऽन्य इति ॥
यदा तु सहायसाध्यं कार्यं पश्येत् तदा संधिविग्रहासनद्वैधीभावं गच्छेदित्युपदिशबाह९६६-एकेन संधिः, कलहो ऽपरेण
कार्यों ऽभितो वा प्रसमीक्ष्य वृद्धिम्, ॥ एवं प्रयुञ्जीत जिगीषुरैता
नीती विजानन्नहिताऽऽत्म-सारम् ॥ ३५ ॥ एकेनेत्यादि-अभित उभयपार्श्वयोः संधिना विग्रहेण वा वृद्धि प्रसमीक्ष्य पश्चादेकेन शत्रुणा स्वयमभियुक्तेन संधिः अपरेण सहायाभियुक्तेन विग्रहः कार्यः । एवमुक्तेन प्रकारेण अहितस्य शनोरात्मनश्च सारं बलाबलं विजिगीषुविजानन् एता नीतीः पाहुण्यलक्षणाः प्रयुञ्जीत ॥ त्वया पुनरेवं न प्रयुक्ता इति दर्शयन्नाह९६७-त्वया तु लोके जनितो विरागः,
प्रकोपितं मण्डलमिन्द्र-मुख्यम्, ॥ रामे तु राजन्, विपरीतमैतत्
पश्यामि, तेना ऽभ्यधिकं विपक्षम्. ॥ ३६ ॥ त्वयेत्यादि-त्वया पुनश्चतुर्वर्णोच्छेदकारिणा लोके जनितो विरागः । इन्द्रमुख्यं च शक्रप्रधान मण्डलं प्रकोपितम् । रामे तु सर्वमेतद्विपरीतं अनुरागेण जनितं मण्डलं चानुरञ्जितं तेनाभ्यधिकं विपक्षं रामं पश्यामि ॥ न चेदानी भवतः कार्य विनष्टं अपि तु प्रागेवेति दर्शयज्ञाह९६८-एकेन वाली निहतः शरेण
सुहृत्-तमस् ते, रचितश् च राजा ॥ यदैव सुग्रीव-कपिः परेण,
तदैव कार्य भवतो विनष्टम् ॥ ३७॥ एकेनेत्यादि-तव सुहृत्तमो वाली यदैव परेण रामेण कर्ता शरेणैकेन निहतः, सुग्रीवश्च कपिस्स्वच्छत् राजा रचितः स्थापितः तदैव विनष्टमिति ॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com