________________
२२६ भट्टिकाव्ये-द्वितीयेऽधिकार-काण्डे लक्षण-रूपे तृतीयो वर्गः,
तवेत्यादि-हे मैथिलि ! तवोपशायिका परिपाच्या शयनं यामी राक्षसीभिः सहेस्यात् । '३२८८। पर्यायाहणोत्पत्तिषु ण्वुच् ३।३।११॥' यावन चेतयन्ति न प्रतिबुध्यन्ते तावत् प्रतिसंदिश्यतां प्रतिसंदेशो दीयताम् । शाङ्गस्य भर्तुः शाङ्ग धनुर्धारयतो रामस्य । तव शार्ङ्गस्येति यथाक्रमं ६२३। कर्तृ-कर्मणोः कृति ।।३।६५।' इति षष्ठी ॥ ६६६-पुरः प्रवेशमाश्चर्य बुवा शाखा-मृगेण सा ॥ ___ चूडा-मणिमंभिज्ञानं ददौ रामस्य संमतम्. ॥१२४॥
पुर इत्यादि-शाखामृगेण मर्कटेन पुरो लङ्कायाः दुष्प्रवेशायाः प्रवेशः तमाश्चर्यमद्भुतं बुवा सा सीता चूडामणिमभिज्ञानं ददौ सर्वमुक्तमस्य संभाव्यत इति । '६२४॥ उभयप्राप्ती कर्मणि ।२।३।३६।' इति षष्टी। प्रवेश इत्युभयप्राप्ती कृति लङ्का हनूमतोः कर्मकर्तृत्वात् । रामस्य संमतं प्रियम् । '३०८९। मतिबुद्धि -३।२।१८।' इत्यादिना वर्तमाने निष्ठा । '६२७। न लोक-१२।३।६९।' इति षष्टीप्रतिषेधे प्राप्ते '६२५। क्तस्य च वर्तमाने ।२।३।६७।' इति षष्ठी ॥ ६६७-रामस्य शयितं भुक्तं जल्पितं हसितं स्थितम् ॥
प्रकान्तं च मुहुः पृष्ट्वा हनूमन्तं व्यसयत्. ॥१२५॥ रामस्येत्यादि-रामस्य अभिज्ञानं दत्त्वा शयितादिकं मुहुः पृष्ट्वा हनूमन्तं ध्यसर्जयत् प्रेषितवती । तस्य शयितुं शयनस्थानं किं भूमौ शेते अन्यत्रेति वा । भुक्तं भोजनस्थानं किं गृहे भुते मुनिजनगृहे वेति । जल्पितं मन्त्रस्थानं किं रहसि मन्त्रयते प्रकाशे वेति । हसितं हसनस्थानं किं शृङ्गारवस्तूनि हसति वीरवस्तूनि वेति । स्थितं निवासस्थानं किं गुहायां तिष्ठत्युत तरुतले वेति । प्रकान्तं प्रचङ्क्रमणस्थानम् । २६६६। अनुनासिकस्य-६४११५' इत्यादिना दीर्घः । किं अङ्गने ऋन्यते अन्यत्र वेति । एषां ध्रौव्यगतिप्रत्यवसानार्थत्वात् । '३०८७। क्तोऽधिकरणे च-३।१७६।' इति क्तः। तस्य प्रयोगे '६२६। अधिकरणवाचिनश्च ।२।३।६।' इति षष्ठी ॥ ६६८-असौ दधदभिज्ञानं
चिकीर्षुः कम दारुणम् ॥ गामुको ऽप्यन्तिकं भर्तुर्
मनसा ऽचिन्तयत् क्षणम् ॥ १२६ ॥ असावित्यादि-असौ हनूमान् दधत् धारयन्नमिज्ञानं चिह्नम् । '६२३॥ कर्तृ-कर्मणोः कृति ।२।३।६५।' इति षष्ठयां प्राप्तायां '६२७॥ न लोक-२।३।६९।' इति लप्रयोगे प्रतिषेधः । ल इति शाननादयो गृहीताः। दारुणमशोक-वनिकाभङ्गादिकं कर्म चिकीर्षुः कर्तुमिच्छुः । उकारप्रश्लेषात् षष्ठ्याः प्रतिषेधः । भर्तुः Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com