________________
तथा लक्ष्य रूपे कथानके 'शोकवनिका भङ्गो' नामाष्टमः सर्गः - २२३
सि समुत्सहे स्म । ' ६३४ | यस्य च भावेन | २|३|३७|' इति सप्तमी । कपेः प्रवेशोपक्रमयोः रावणसंप्राप्तिप्रतिगमनक्रियाभ्यां लक्ष्यमाणत्वात् । उपासीति'२७१२। उपपराभ्याम् | १|३|३९|' इत्यनेन वृत्यादिषु सर्ग उत्साहे मेस्तङ् । उत्तमपुरुषैकवचनम् । '२३२३| सु-क्रमोरनात्मनेपदनिमित्ते |७|२| ३६ |' इति सिच इट् न भवति ॥
यथादावेव प्रविष्टोऽसि तर्हि किमिति स्वकर्म न दर्शितवानसीत्याह६५५ - तस्मिन् वदति रुष्टो ऽपि ना ऽकार्ष देवि ! विक्रमम् ॥ अ- विनाशाय कार्यस्य विचिन्वानः परापरम् ॥११३॥
तस्मिन्नित्यादि - हे देवि ! तस्मिन् वदति रुष्टोऽपि विक्रमं नाका, तं तथा वदन्तमनादृत्य विक्रमं नाकार्षमित्यर्थः । ' ६३५। षष्ठी चानादरे | २|३|३८|' इति चकारात्सप्तमी । किमर्थे कार्यस्य संदेशकथादेरविनाशाय । विचिन्वानः परापरं पौर्वापर्य निरूपयन् । कर्त्रभिप्राये तङ् ॥
|
कथं वानरस्त्वं तस्य किङ्कर इत्याह
६५६ - वानरेषु कपिः स्वामी नरेष्वधिपतेः सखा ॥
जातो रामस्य सुग्रीवस् ततो दूतो ऽहमागतः ॥ ११४ ॥ वानरेष्वित्यादि - वानरेषु स्वामी यः कपिः सुग्रीवः स नरेष्वधिपतेः रामस्य सखा जातः । ' ६३६ | स्वामीश्वर |२| ३ |३९|' इत्यादिना षष्ठी - सप्तम्योविधानात् सप्तम्युदाहृता । ततो ऽहं दूत भागतः ॥
भागत्य च लङ्कां प्रविश्य इहायात इत्याहयुग्मम् - ११५-११६
६५७ - ईश्वरस्य निशाटानां विलोक्य निखिलां पुरीम् ॥ कुशलो ऽन्वेषणस्याऽहमयुक्त दूत कर्मणि ॥ ११५ ॥
ईश्वरस्येत्यादि - निशाटानां राक्षसानामीश्वरस्य दशाननस्य । भन्न षष्ठयुदाहृता । पुरीं निखिलां निःशेषां विलोक्य किं तत्र वर्तत इति । प्राप्त इति वक्ष्यमाणेन संबन्धः । कुशलो ऽन्वेषणस्याहं सीताया अन्वेषणस्य निपुणः । आयुक्त दूतकर्मणि दूतक्रियायां व्यापृतः । '६३७ | आयुक्त-कुशलाभ्याम् ।२।३। ४०|' इति षष्ठी - सप्तम्यौ ॥
६५८ - दर्शनीय - तमाः पश्यन् स्त्रीषु दिव्यास्वपि स्त्रियः ॥
प्राप्तो व्याल-तमान् व्यस्यन् भुजङ्गेभ्यो ऽपि राक्षसान् ॥ ११६ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com