________________
२२२ भट्टिकाव्ये – द्वितीयेऽधिकार काण्डे लक्षण-रूपे तृतीयो वर्गः,
६५० - दण्डकान् दक्षिणेना ऽहं सरितो ऽद्रीन् वनानि च ॥ अतिक्रम्या ऽम्बुधिं चैव पुंसाम॑ग॒ममा॑हृता ॥ १०८ ॥ दण्डकानित्यादि - दण्डकानामदूरे या दक्षिणा दिक् तस्यामिति । '१९८४। एनबन्यतरस्याम् |५|३|३५|' इति सप्तम्यन्तादेनप् प्रत्ययः । तदन्तेन योगे * ६१० | एनपा द्वितीया | २|३|३१|' इति द्वितीया । दक्षिणेन दण्डकानां दक्षिणस्यां दिशि । सरितो दीन् वनानि च अम्बुधिं चातिक्रम्य पुंसामगममगम्यम् । '३२३४ | ग्रह-वृ-ह- निश्चि गमश्व | ३ | ३|५८|' इत्यप् । अहमाहृता आनीता । तत्कथमवैदित्यचिन्तयत् ॥
६५१ – पृथङ् नभस्वतश् चण्डाद् वैनतेयेन वा विना ॥
गन्तुमुत्सहते नैह कश्चित् किमुत वानरः ॥ १०९ ॥'
पृथगित्यादि - नभस्वतो वातात् चण्डात् पृथक् वायुं त्यक्त्वा । वैनतेयेन वा विना गरुडं वा वर्जयित्वा । '६०३ | पृथग्विना - | २|३|३२|' इत्यादिना तृतीयापञ्चम्यौ । इह लङ्कायां कश्चित् गन्तुं नोत्सहते किमुत वानरः ॥ ६५२ - इति चिन्ता - वतीं कृच्छ्रात् समासाद्य कपि द्विपः ॥
मुक्तां स्तोकेन रक्षोभिः प्रोचे - ' ऽहं राम - किङ्करः ११० इतीत्यादि - एवमुक्तेन प्रकारेण चिन्तावतीं कपिद्विपो हनूमान् । कृच्छ्रासमासाद्य कथमप्युपगम्य । अहं रामकिङ्करः रामप्रेषणकर इति प्रोचे । मुक्तां स्तोकेनाल्पेन रक्षोभिः कर्तृभिः । '६०४॥ करणे च स्तोकाल्प- १२।३।३३।' इत्यादिना तृतीयापञ्चम्यौ । कृच्छ्र स्तोकयोरसत्ववचनयोः करणत्वात् ॥
1
यदि त्वं रामकिङ्करः कासावित्याह
६५३ - विप्रकृष्टं महेन्द्रस्य न दूरं विन्ध्य पर्वतात् ॥
नाभ्याशे समुद्रस्य तत्र माल्यवति प्रियः ॥ १११ ॥ विप्रेत्यादि - माल्यवति पर्वते तव प्रियो रामः महेन्द्रस्य पर्वतस्य विप्रकृष्टं दूरं । विन्ध्यपर्वताच्च न दूरम् । '६११| दूरान्तिकार्थैः षष्ठयन्यतरस्याम् |२|३|३४ |' इति षष्ठी-पञ्चम्यौ । महेन्द्रपर्वत - विन्ध्ययोर्दूर विप्रकृष्टयोस्तु '६०५ ॥ दूरान्तिकार्थेभ्यो द्वितीया च । २।३।३५।' इति द्वितीया । नानभ्याशे न दूरे समुद्वस्य । '६११| दूरान्तिकार्थैः | २|३|३४|' इति षष्ठी । माल्यवति '६३३। सप्तम्यधिकरणे - | २|३|३६|' इति सप्तमी । चकाराद्दूरान्तिकार्थेभ्यश्च । तेनानभ्याश इति सप्तमी ॥
६५४ - अ - संप्राप्ते दशग्रीवे प्रविष्टो ऽहमिदं वनम् ॥
तस्मिन् प्रतिगते द्रष्टुं त्वामु॑पात्र॑स्य॑ चेतितः ॥ ११२ ॥ असमित्यादि - दशग्रीवे दशवदने भसंप्राप्ते अप्रविष्टे अहमचेतितः सम् इदं वनमशोकवनिकाख्यं प्रविष्ट इति । तस्मिन् प्रतिगते त्वां द्रष्टुमुपाक्रंShree Sudharmaswami Gyanbhandar - Umara, Suratwww.umaragyanbhandar.com