________________
२०४ भट्टिकाव्ये – द्वितीयेऽधिकार काण्डे लक्षण-रूपे तृतीयो वर्गः,
'२५९६ । नित्यं स्मयतेः | ६ | १|५७ |' इत्यात्वम् । गृहाद्गृहमाटीत् गतवान् । लुङि रूपम् ॥
५८५-सीतां दिदृक्षुः प्रच्छन्नः सो ऽगर्धयत राक्षसान् ॥
"
अवञ्चयत मायाश् च स्व-मायाभिर् नरद्विषाम्, ४३
सीतामित्यादि - स कपिः सीतां दिदृक्षुः सीतां द्रष्टुमिच्छुः प्रच्छन्नः राक्षसानगर्धयत । व्यामोहयत् । स्वमायाभिश्च नरद्विषां मायाश्च भवञ्चयत अतिसंहितवान् । ‘२७३९। गृधि-वयोः प्रलम्भने |१| ३ | ६९ |' इति तङ् ॥ ५८६-अपलापयमानस्य शत्रूंस् तस्याऽभवन् मतिः ॥
'मिथ्या कारयते चारैर्घोषेणां राक्षसाऽधिपः ॥४४॥
अपेत्यादि- — तस्य कपेः शत्रून् राक्षसान् अपलापयमानस्य न्यक्कुर्वतः । '२५२९| विभाषा लीयतेः | ६ | १|५|' इत्यात्वे '२५९२ । लियः सम्मानन - |१३१७०|' इत्यादिना शालिनीकरणे न्यग्भावने आत्मनेपदम् । मतिरभवत् । कीटशीत्याह - मिथ्या कारयत इति । अयं राक्षसाधिपतिश्चारैर्दण्डवाहकैः यां घोषणां पुनः पुनः कारयति जागृत जागृतेति तां मिथ्या कारयते येनाहमविज्ञात एव प्रविष्टः ट: । '२७४०। मिथ्योपपदात् कृञो ऽभ्यासे |१| ३|७१।' इति तङ् | अभ्या· सश्च पुनः पुनः करणम् ॥
कुलकम् ४५-४९—
५८७–गूहमानः स्व-माहात्म्यमेटित्वा मन्त्रि- संसदः ॥
नृभ्यो ऽपवदमानस्य रावणस्य गृहं ययौ ॥ ४५ ॥ गूहमान इत्यादि - स्वमाहात्म्यं स्वपराक्रमं गूहमानः आवृण्वन् । '२३५४ | कंदुपधाया गोहः | ६ | ४|८९ |' इत्युत्वम् । '२१५८ । स्वरितत्रितः | १ | ३ |७२ |' इति तङ् । अटित्वा मन्त्रिसंसदः शुकसारणादिगृहाणि गत्वा रावणस्य गृहं ययौ । कीदृशस्य । नृभ्यो ऽपवदमानस्य कुप्यतः असूयतो वा । '२७४१ । अपा द्वदः | २|३|७३।' इति तङ् । नृभ्य इति '५७५। क्रुध दुह - |१|४|३७|' इति सम्प्रदानसंज्ञायां चतुर्थी ॥
कीदृशं गृहमित्याह
५८८ - दिशो द्योतयमानाभिर दिव्य-नारीभिराकुलम् ॥ श्रियमा॑य॒च्छमानाभिरुत्तमाभिर॑नु॒त्त॒मम् ॥ ४६ ॥
१ – १७७९ । चारश्च गूढ- पुरुषशू, चा ऽऽप्त - प्रत्ययितौ समौ ।' । ‘१८३ | आम्रेडितं द्विस्-त्रिरुक्तमुचैर् घुष्टं तु घोषणा ' चिवोऽमात्यो, ऽन्ये कर्मसवचिवास् ततः ।' इति सर्वत्र ना० टीकनमवलोकयन्तु । इति ॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com
३ - ७७० । मन्त्री धीसभ० । ४ – (५६४ ) सोकस्थं