________________
तथा लक्ष्य-रूपे कथानके सीताऽन्वेषणं नाम सप्तमः सर्गः - १८९ ५३२ - विदित्वा शक्तिमात्मीयां रावणं विजिघृक्षवः ॥
उक्तं पिपृच्छिषूणां वो मा स्म भूत सुषुप्सवः ॥९८॥ विदित्वेत्यादि - आत्मीयां शक्तिं सामर्थ्यं विदित्वा । पूर्ववत्कित्त्वम् । रावणं विजिघृक्षवः विग्रहीतुमिच्छ्वः । सुषुप्सवः शयितुमिच्छवो मा स भूत । न प्रमत्ता भवतेत्यर्थः । रावणस्य बलीयस्त्वादिदमुक्तं मया वो युष्माकं पिपृच्छिषूणां प्रष्टुमिच्छूनाम् । अत्र ' २६०९। रुद- विद |१२|८|' इति सनः किरवे सम्प्रसारणम् । प्रच्छेः ' २६११। किरश्च पञ्चभ्यः | ७|२|७५ |' इतीडागमः ॥
11
५३३ - ना विविदिषुर्मभ्येति सम्पद् रुरुदिषु॑ नरम्, किं मुमुषिषु वद् यात द्विषो ना पचिकीर्षया ॥९९॥
नेत्यादि - वेदितुं ज्ञातुमिच्छुर्यो न भवति तं नरम विविदिषु रुरुदिषु रोदितुमेषणस्वभावं सम्पद्विभूतिर्नाभ्येति नागच्छतीति वो मयोक्तमिति योज्यम् । किं न यात न गच्छत । मुमुषिषुवत् चौरवदित्यर्थः । पूर्ववत्कित्वम् । द्विषः शत्रोरपचिकीर्षया अपकर्तुमिच्छया । ' २६१२। इको झल | १|२९|' इति किरवे गुणो न भवतीति ' २६१४ | अज्झनग़मां सनि | ३ | ४ | १६ | ' इति दीर्घः । ' २३९० ऋत इद्धातोः |७|४|१००।' ॥
५३४ - बुभुत्सवो द्रुतं सीतां भुत्सीध्वं प्रब्रवीमि वः, ॥
मा च भुवं मृषक्तं नः कृषीढुं स्वामिने हितं १०० बुभुत्सव इत्यादि - बुभुत्सवो ज्ञातुमिच्छवः यदि सीताम् । बुधेः सन्नन्तात् ' २६१३। हलन्ताच्च |१२|१०|' इति कित्त्वम् । '३२६ | एकाचः | ८|२३७।' इति भष्भावः । तदा द्रुतं तां भुत्सीध्वं जानीतेति वो युष्मान् ब्रवीमि । '२३००। लिङ्-सिचौ ।१२|११|' इति कित्त्वम् । मृषोक्तं मिथ्योक्तं नो ऽस्माकं मा च भुद्ध्वं न जानीत, अपि तु सत्यम् । '२२८१| झलो झलि |८|२|२६| इति सिचो लोपः । '५२ | झलां जश् झशि | ८ | ४|५३ |' किवं पूर्ववत् । अतो यूयं स्वामिने रामाय हितं कृषीढुं कुरुत । ' २३६८। उश्च | १|२|१२|' इति किश्वम् । '२२४७ इणः षीध्वं १८१३१७८१' इति मूर्धन्यः ॥
५३५ - समगध्वं पुरः शत्रोर्, मोदयध्वं रघुत्तमम् ॥
"
नौपायध्वं भयं, सीतां नो॑पायंस्त दशाननः ॥१०१॥ समगध्वमित्यादि -- इदमहमाशंसे यदुत शत्रोः रावणस्य पुरः अग्रतः समगध्वं संगता भवत । २७९० | आशंसायां भूतवच्च | ३ | ३|१३२|' इति लुङ् । '२६९९। समो गभ्युच्छि - |१२|३|' इति तङ् । '२७०० | वा गमः | १|३|२९| ' इति सिचः किवे ' २४२८ | अनुदात्त - | ६|४|३७|' इत्यनुनासिकलोपः । '२३१
१-७७६ । रिपौ वैरि सपनारि - द्विषद्-द्वेषण- दुर्हृदः । द्विड्-विपक्षा ऽहिताऽमित्र-द म्यु - शात्रव - शत्रवः ।' इति ना० अ० ।
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com