________________
१२० भट्टिकाव्ये – द्वितीयेऽधिकार काण्डे लक्षण-रूपे षष्ठो वर्गः,
२९१ - प्रलुठितवनौ विलोक्य कृत्तं दश-वदनः ख-चरोत्तमं प्रहृष्यन् ॥ रथ-वरम॑धिरुह्य भीम-धुर्यं स्व-पुरमंगात् परिगृह्य राम - कान्ताम् ॥१०८॥
1
प्रलुठितमित्यादि - खचराः पक्षिणः । खे चरन्तीति अधिकरणे '२९३० । चरेष्टः | ३ |२| १६ |' तेषामुत्तमं जटायुं कृत्तं छिन्नं लूनपक्षत्वात् । भवनौ भुवि प्रलुठितं विलोक्य प्रहृष्यन् हर्षे प्राशुवन् विवृत्तो विघ्नकारीति दशाननो रथवरं स्मरणात् प्राप्तं पुष्पकाख्यमारुह्य भीमधुर्य रामकान्तां सीतां तथैव परिगृह्य स्वपुरमगात् गतवान् ॥
इति श्री जयमङ्गलाSSख्यया व्याख्यया समलंकृते श्री भट्टिकाव्येद्वितीयेऽधिकार काण्डे लक्षण-रूपे पञ्चमः परिच्छेदः (वर्गः ) ' तथा लक्ष्य-रूपे कथानके सीता हरणः श्री राम-प्रवासो नाम पञ्चमः सर्गः पर्यवसितः ॥ ५ ॥
षष्ठः सर्गः— अनाधिकारस्यापरिसमाप्तत्वात्तमे वाममधिकृत्याह -
२९२ - ओषांचकार कामऽग्निर् दश-वक्रम॑हर्-निशम्. ॥ विदांचकार वैदेहीं रामादन्य- निरुत्सुकाम् ॥ १ ॥ ओषांचकारेत्यादि - अथशब्दो वक्ष्यमाणतृतीयश्लोके यः सोऽत्र द्रष्टव्यः । अथ तस्मिन् सीतापरिग्रहे जाते कामाग्निः कामोऽग्निरिव दशवक्रं दशाननमोषांचकार ददाह । '७४६ । उषं दाहे' । '२३४१ । उष - विद - | ३|१|३८|' इत्याम् । अहर्निशं अहश्च निशा च । 'सर्वो द्वन्द्वो विभाषैकवद्भवति' इत्येकवद्भावात् । '५५८ | कालाध्वनोरत्यन्तसंयोगे | २|३|५|' इति द्वितीया । अहो नकारस्य '१७२ | रोSपि ८/२/६९ | ' इति रत्वम् । कस्माद्ददाह इत्याह । रावणो वैदेहीमन्यनिरुत्सुकां रामादन्यस्मिन् सर्वत्र निरभिलाषां विदांचकार अगुणत्वं विदेस्तथेति विदेश्कारान्तनिपातनात् गुणाभावः ॥ २९३- प्रजागरांचकारोरेरीहास्वनिशर्मादरात्, ॥
प्रविभयांचकारो ऽसौ काकुत्स्थादभिशङ्कितः ॥ २ ॥ प्रजागरांचकारेत्यादि - अरे रामस्य ईहासु चेष्टासु । '३२८०। गुरोश्च - ।३।३।१०३।' इत्यकारः । आदरादादरेण प्रजागरांचकार जागरितवान् । शत्रुचि -
१ - ( १८२ ) लोकस्थं टीकनं प्रेक्ष्यम्. ।
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com