________________
तथा लक्ष्य-रूपे कथानके राम-प्रवासो नाम पञ्चमः सर्गः-
८९
पाने प्रसक्तः । ७१८॥ सप्तमी शौण्डैः ।२।११४०।' इति सः । अत एवं प्रमादवान् । अतोऽपि खट्दारूढः उत्पथप्रस्थितः । ६८८। खट्वाक्षेपे ।२।१२६॥' इति द्वितीया सः । तत एव पात्रेसमितैः भोजन एव सन्निहितैः अनुजीविमिर्वृतः । '७२५। पात्रेसमितादयश्च ।२।१।१८' इति क्षेपे सः॥ १९४-अध्वरेष्वग्निचित्वत्सु सोमसुत्वत आश्रमान् ॥ .. अत्तुं महेन्द्रियं भागमैति दुश्यवनो ऽधुना, ॥११॥
अध्वरेग्वित्यादि-त्वय्येवम्भूतेऽधुना दुभ्यवन इन्द्रः आश्रमानैति आगच्छति । आपूर्वस्येणः '७३। एत्येधत्युत्सु ।६।११८९।' इति वृद्धिः । सोमसुस्वतः सोमं सुनोतीति '३०००। सोमे सुजः ।४।२।९०।' इति विप् । सोमसुतः सन्ति येष्वाश्रमेष्विति मतुप् । १८९६॥ तसौ मत्वर्थे ।१।४।१९।' इति भस्वे तकारस्य जश्त्वं न भवति । १८९८। झयः ।।२।१०।' इति मतोर्वत्वम् । किमर्थमेतीत्याह-अत्तुं भक्षयितुं महेन्द्रियं भागम् । महेन्द्रो देवता अस्येति । '१२३॥ महेन्द्राद्वाणौ च ।।२।२९।' इति घः । क अध्वरेषु यज्ञेषु । अग्निचित्वत्सु । अग्निं चितवन्तोऽग्निचितः आहिताग्नयः । '३००१॥ अग्नौ चेः ३।२।९।' इति विप् । ते सन्ति येष्विति पूर्ववन्मतुः ॥ १९५-आमिक्षीयं दधि-क्षीरं पुरोडाश्यं तथौषधम् ॥
हविर् हैयङ्गवीनं च नाऽप्युपनन्ति राक्षसाः ॥१२॥ आमीत्यादि-दना सहितं शृतं पय आमिक्षा। तस्मै हितमामिक्षीयम् । "१६६४। विभाषा हविरपूपादिभ्यः ।५।१।४।' इति छयतौ । दधि च क्षीरं चेति । '९१६। विभाषा वृक्ष-२।४।१२।' इत्यादिना व्यञ्जनस्वादेकवद्भावः । पुरोडाशाय हितमौषधं नीवारतण्डुलादि पुरोडाश्यम् । अपूपादित्वाद्यत् । ओषधिरेवौषधम् । २१०५। ओषधेरजातौ ।५।४।३७।' इत्यण् । तण्डुलानामजातित्वात् । 'स्वार्थिकाश्च प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते' इति नपुंसकलिङ्गता । हरिः हूयत इति हविः । 'अर्चि-शुचि'इत्यौणादिक इस् । हैयङ्गवीनं घृतम् । ह्योगोदोहस्य विकार इत्यर्थे १८२४। हैयङ्गवीनं संज्ञायाम् ।५।२।२३।' इति निपातनात् खञ् हियंग्वादेशश्च । तानि नाप्युपनन्ति राक्षसाः त्वय्युदासीने सति ॥
इदानी कार्यप्रदर्शनेन प्रोत्साहयितुमाह१९६-युव-जानिर् धनुष्-पाणिर् भूमि-ष्ठः ख-विचारिणः ॥
रामो यज्ञ-द्रुहो हन्ति काल-कल्प-शिलीमुखः ॥१३॥ युवेत्यादि-युवतिः यौवनवती जाया यस्य युवजानिः । ४७२। जायाया
१७६' वलि लोपः । ८३१॥ स्त्रियाः पुंवत्-६।३।३।' इत्यादिना पुंवद्रावात् स्त्रीप्रत्ययो निवर्तते । धनुष्पाणिः पाणौ धनुर्यस्य । प्रहरणेत्यादिषा
वात् श्रीमत्ययाय लोपः । माया यस्य युवा
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com