________________
श्रीभगवन्नामको मुदी |
भोग्यश्रेयोद्वारेण भोका पुरुषेण सम्बन्धो विधिपुरुषसम्बन्धः, तद्धेतुर्जीवनकामनाऽऽदिः ।
७३
नियोगवादिनस्तु नियोज्यनियोगयोर्बोद्धृबोद्धव्यलक्षणः सम्बन्धो विधिपुरुष सम्बन्धः स च कर्मण्यैश्वर्य्यमित्येवलक्षणादधिकारादन्य एवेति मन्यन्ते ।
स सर्वोऽपि न श्रद्धामन्तरेण संभवति, अनवगतासभावस्य पुंसो वाक्याद्विशिष्टप्रवर्त्तकविषयाद् वस्तुवृत्त्या विसंवादशून्यादपि ममेदमिष्टसाधनमिति वा ममेदंकार्य्यमिति वा प्रतिपत्तेः प्रवृत्तेश्चादर्शनात् ।
सा चेति । स स पुरुषस्तत्र तत्र श्रद्धत्त इत्यर्थः । व्युत्पत्तिभेदेनेति । श्रधिकरणमधिकार इति व्युत्पत्या विधिपुरुषसम्बन्धः । अधिक्रियते येनेति व्युत्पत्या तद्धेतुः । तदेव विवृणोति - तत्रेति । गुरुमते विधिपुरुषसम्बन्धं विवृणोति - नियोगेति । उभयमतेऽपि श्रद्धाऽपेक्षामाह - स सर्व इति । श्रनवगतेति । यस्याप्तत्वं न ज्ञायतइत्यर्थः । विशिष्टेति । इष्टसाधनत्वप्रतिपादकादित्यर्थः । प्रतिपत्तेरदशनादित्यन्वयः ।
ननु यस्य वेदस्तन्मूलं च स्मृतिपुराणादि सर्व्वं शास्त्रप्रमाणमिति निर्णिक्तशङ्कापङ्कबुद्धिरस्ति स एव शास्त्र - ऽधिक्रियते, तत्र यदि कथं चिदेकदेशेऽप्यश्रद्धा तत्कथमेकदेशान्तरेऽप्यधिकारः, अपि च नैकदेशविषयिणी श्रद्धैव संभविनी, सा हि शास्त्रस्य प्रमाणान्तरसंवादनिबन्धना वा स्वतः प्रामाण्यनिबन्धना वा, न तावदाद्यः प्रमाणान्तरैर्दुरवगाहत्वादतिगहनस्य धर्मतत्त्वस्य, नापि द्वितीयः स्वतः प्रामाण्यस्यैकदेशान्तरेऽप्यविशेषात् तन्निबन्धना वेदभविष्यत् सर्वत्रापि श्रद्धा, न वा कुत्रचित्, तत् कथं तन्निबन्धना व्यवस्थेति ?
१०
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com