________________
६२
प्रकाशसहिता
केषां चिद् व्यवस्थामाह-तत्रेति । स्मृतिषु नितान्तमतिशयेनानुरक्ता अभिनिविष्टा इत्यन्वयः । मनाग = अल्पम् । अनेनानुवादसमय एवावरसः सूच्यते, श्रुतिमूलत्वेन स्मृतिपुराणयोर्विशेषाभावादिति । महत्सु वा ज्ञानकृतेषु वा प्रकाशकृतेषु वा पापेषु स्मार्तं प्रायश्चित्तम् , इतरेषु पौराणमिति व्यवस्था, कर्तृव्यतिरिक्तनाज्ञातं रहस्यम् तस्मिन्नेव मते परं विशेषमाह-ततश्चेति । अल्पेऽज्ञानकृते रहस्यकृते च पातके स्मातं प्रायश्चित्तमस्त्येव किंतु तस्य नामकीर्तनेन विकल्प इति भावः । तदेतद्दषयति-तन्नेति । गुरुणि पापे गुरूणि प्रायश्चित्तानि, अल्पे. ऽल्पानि, स्वायंभुवो मनुस्तदादयो जगुः । तेषामिति निर्धारणे षष्टी । तेषामशेषाणां गुरुलघुप्रायश्चित्तानां मध्य इत्यर्थः । परशब्दार्थमाहमुख्यति ।
ननु को नाम न ब्रूते कृष्णानुस्मरणं महापातकादिप्रकीर्णान्तसाघसंहरणमिति, सा हि ब्रह्मविद्या, तथा हि कृषति विलिखति विदारयति संसाराटवीमिति वा कर्षति आकर्षति आत्मसात्करोति वाऽज्ञानमिति वा कृष्णः परमात्मा सदानन्दरूपो वा
कृषि वाचकः शब्दो णश्च निर्वृतिवाचकः । तयोरैक्यं परं ब्रह्म कृष्ण इत्यभिधीयत
इति च स्मृतेः, तस्य चायमर्थः, भवनं भूःसत्ता तदाचको भूवाचको न तु पृथिवीवाचक इति; निवृतिवचनेनणकारेणानन्वयात्, पृथिवीवर्तिनों जीवानामानन्दोयस्मादिति विग्रहे लक्षणाप्रसङ्गाद्, प्रास्थावरमाचतुराननंच सर्वेषां जीवानामानन्दयितरि स्वसमयपरिपच्यमाननानापुण्योपसादितविविधविषयसन्निधिसंमृज्यमानम-- नोमुकुरमण्डलान्तरभिव्यज्यमानतया तत्तदानन्दतयोपधीयमाने परमात्मनि पृथिवीगतानन्दत्वस्य तद्हेतुत्वस्य चाविवक्षितत्वाद्, विरक्षितत्वेवा "ये वाऽमुष्मात्पराञ्चोलोकास्तेषां चेष्टे देवकामानां चे"त्यादिशास्त्रविरोधात्,
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com