________________
श्रीभगवन्नामकौमुदी ।
૫
1
प्राधान्येन निरूप्यते तथा नान्येषु धर्मार्थकामप्रधानेष्विति भावः । प्रकारान्तरेण श्रेष्ठत्वमाह किं वा परैरिति । परैः पुराणैः श्रुतैः सद्भिरीश्वरो हृदि सनः किं वाऽवरुध्यते नावरुध्यत इत्यर्थः । अत्र शुश्रूषुभिः श्रवणेच्छावद्भिस्तत्क्षणादवरुध्यते कृतिभिरिति श्रवणेच्छाऽपि श्रीभागवतस्य पुण्यवतां भवति न सर्वेषामिति सूचितम् श्रवरुध्यत इति वर्तमानत्वनिर्देशेन भागवतश्रवणे हृदि परमेश्वरावरोधनं कृतिनामनुभवसिद्धमिति सूचितम्, पुराणस्य श्रीभागवतस्य, त्रिकाण्डेति । कर्मकाण्डज्ञानकाण्डदेवताकाण्डरूपत्वप्रतिपादनादित्यर्थः । तत्र प्रथमपादे कर्मकाण्डरूपत्वं द्वितीयपादे वास्तवपरब्रह्मनिरूपकतया ज्ञानकाण्डरूपत्वं, किं वा परैरित्यादिना देवताकाण्डरूपत्वं प्रतिपाद्यत इति । भूयस्त्वादिति । परमात्मप्रतिपादनमपि तत्राल्पं वर्तत इति भावः । नातिशङ्कनीयमिति । संशयविपर्ययौ न मन्तव्यावित्यर्थः । धर्म इति । परमात्मन्यपीति शेषः । न चैवं नानाऽर्थत्वं दोषायेत्याह - तत्रेति । वेदान्त्येकदेशिनस्तु सर्वो वेद: परमात्मपर एव, न च यागस्वर्गयो हिंसानरकयोश्च साध्यसाधनभावासिद्धिप्रसङ्गोऽन्य परत्वादिति वाच्यम्, अन्य परंभ्योऽपि वज्रहस्तः पुरन्दर इत्यादिभ्यो देवता विग्रहसिद्धिवत्तदुपपत्तेरिति वदन्ति, तत्पक्षावलम्बनेन पुराणवचनानामपि परमात्मपरत्वमेष, नामकीर्तन वाक्यानां तु स्वार्थपरत्वाभावेऽपि यजेत स्वर्गकाम इत्यादिवत्स्वार्थे प्रामाण्यं स्यादेवेत्याशयेनाह - श्रथ पुष्कराक्षेति । नन्वेवं सर्वस्य वेदस्यैकवाक्यत्वं स्यादित्याशङ्कामिष्टापत्या परिहरति-वेदा इति । त्रिकाण्डविषया वेदा ब्रह्मात्मविषयाः, कथमन्यविषयाणामन्यविषयत्वंतत्राह – परोक्षेति । गूढवादा इत्यर्थः । ऋषयो वेदाः, तदुक्तमृषिणेत्यादौ वैदिकप्रयोग ऋषिशद्वस्य वेदार्थत्वदर्शनाद्, विषं भुङ्क्ष्वेत्यादिवाभ्यवद् गूढवादत्वं वेदानामिति भावः । गूढ़वादं स्तौति – परोक्षमिति । ममेति परमेश्वरोक्तिः, अनुशासनं विधिनिषेधात्मा वेदोऽयंबालानामज्ञानां परोक्षवादः । ननु कर्माणि विधत्ते; सत्यं विधत्ते न तु तत्र तात्पर्यं किंतु कर्ममोक्षाय संसारनिवृत्तये, यथा वालानामगदंभेषजं रोगनिवृत्तये न तु तदनन्तरं पित्रा दीयमानगुडावाप्तये, अतः परमात्मपर एव वेद इति सर्वे वेदा यत्पदमामनन्ति सर्वैश्च वेदैरहमेव वेद्य इत्यादिशतार्थः । स्वमतेनोपसंहरति-ततश्चेति । खरसतइति । पूर्वमतेऽस्वरसप्रदर्शनम् । उदाहतवाक्यानि तु साक्षात्परम्परया परमा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com