________________
श्रीभगवन्नामकौमुदी।
१०७ नन्वर्थवादाविधिः श्रेयान् , तत्र श्रेयान् यत्र गुणवादः प्रसज्येत, इह पुनरर्थवादत्वेऽपि यथार्थवाद एवेति नायं न्यायः, अपि च बहुतराणां खरसत एव प्रतीयमानंप्रमाणान्तरैरविरुद्धमनधिगतमुपयुक्तमर्थमनुवाद्य; द्वित्राणांवा विधित्वं कल्प्यतां सर्वेषां च स्वं स्वमर्थमजहतामर्थवादत्वमिति मीमांसायामपङ्क्तिभेद एव श्रेयान् , अपि च कैमुत्यविवक्षायां दृष्टान्ता नोपपद्यन्ते
अज्ञानादथ वा ज्ञानादुत्तमश्लोकनाम यत् । संकीर्तितमघं पुंसां दहत्येधो यथाऽनलः ।। यथाऽगदं वीर्यतममुपयुक्तं यदृच्छया। अजानतोऽप्यात्मगुणान् कुय्योन्मन्त्रोऽप्युदाहृतः॥ हरिहरति पापानि दुष्टचित्तैरपि स्मृतः । अनिच्छयापि संस्पृष्टो दहत्येव हि पावकइत्यादयः, साध्यवैकल्पाद्, न हि तेषु कैमुत्यमस्ति; अपितु ज्ञानाज्ञानयोः साधारण एव साधनभावः, अपि च
"नारायणेत्येतजगाद चतुरक्षरं" "हरिरित्यक्षरद्वयमि"ति वदन् शब्द एव विवक्षितोनार्थानुसंधानमित्यभिसंधत्त, अन्यच्च " यतस्तद्विषया मतिरि" त्यादौ न विधिः कल्पयितुं शक्यते, साधिकारं हीदं वाक्यं, न च साधिकारे वाक्ये गुणविधिमनुमन्यन्तेन्यायविदः, वैरूप्यंहि तदा प्रसज्येत, प्रवृत्तिरपि स्वविषयज्ञानापेक्षिणी न पुनर्नामिज्ञानापेक्षिणी, तस्मान्नज्ञानमङ्ग कीर्तनस्य,नाप्यधिकारहेतुः । यदप्युक्तम्-अनुतप्ताननुतप्तभेदेन सकृत् कृतमावर्तितं च कीर्तनं व्यवस्थितमिति; तदपि नातीवाभिप्रेतं, तथा हि-विधाद्वयमप्येतत् किं विधिसामर्थ्या
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com