________________
६४
प्रकाशसहिता
अपि च किं कीर्त्तनादो प्रवृत्तिमात्र हेतुः श्रद्धा; किं वा कीर्त्तनादेः फलसाधनेऽन्तर्भवति ? तत्र यदि तावत्प्रवृत्तिमात्रहेतुस्तदन्तरेणापि श्रद्धां कीर्त्तनादौ प्रवृत्तस्य पापक्षयो भवेदेव तस्यैव निरपेक्षसाधनत्वाद्, अथ फलसाधनेऽन्तर्भवति तर्हि तस्याः शास्त्रेण वा साधनत्वंप्रमीयते प्रमाणान्तरेण वा ? तत्र यदा शास्त्रेण तदा श्रद्धासहकृतं कीर्त्तनं पावनमित्युच्यते, तत्र पृच्छामः सा सहकारिणी श्रद्धा कीर्त्तनमात्रमवलम्बते श्रद्धासहकृतं - वेति ? न तावत् कीर्त्तनमात्रं, तस्यासाधनत्वात् साधनविषयत्वाच्च श्रद्धायाः; साधनत्वे वा श्रद्धासहकारव्याघातः, अथ श्रद्धासहकृतं वेति, तत् किमात्मना सहकृतं श्रद्धाऽन्तरेण वा ? न तावदात्मना तस्यैव विषयत्वंविषयित्वं चेति व्याघाताद्, नापि श्रद्धाऽन्तरेण तत्रापि विकल्पापातात्, तदपि किं केवलमवलम्बते स्वसहकृतंश्रद्धाऽन्तरसहकृतं वेति, तत्राद्ययोरुक्तो दोष:, तृतीयेऽपि श्रद्धाऽन्तरं नाम किं प्रथमा श्रद्धा तृतीया वा ? न तावत्प्रथमा; अन्योन्याश्रयापाताद्, द्वितीयश्रद्धा निरूपणे हि तत्सहकृतालम्बना प्रथमा निरूप्यते प्रथमश्रद्धानिरुपणे च तत्सहकृतालम्बना द्वितीयेति, अथ तृतीया साऽपि यदि द्वितीया सहकृ तमालम्बते; श्रायातमन्योन्याश्रयत्वं, प्रथमासहकृतञ्चेत् चक्रकमापद्यते प्रथमासहकृतं तृतीयाऽऽलम्बते; तृतीया सहकृतं द्वितीया; द्वितीयासहकृतं प्रथमेति, चतुर्थादिसहकृतत्वेऽनवस्थापातः, तस्मान्न शास्त्रेण श्रद्धायाः सहकारित्वावगतिः संभवति । ननु कीर्त्तनस्य कारणत्वविषयिणी श्रद्धा; न पुष्कल
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com