________________
[ ४१८ ]
किमित्याह गर्भादि दिनानि । गर्भ, जन्म, निष्क्रमण, ज्ञान, निर्वाण दिवसा, यथाक्रमं क्रमेणैवेतान्यन्तरोक्ता न्येषांचमध्ये हस्तोत्तर योगेन हस्त उत्तरोयासां हस्तोप लक्षिता वा उत्तरा हस्तोत्तर उत्तर फाल्गुन्यः ताभिर्योगः सम्बन्धश्चेति इस्तोत्तरा योगस्तेन करणभुतेन चत्वार्याद्यानि दिनानि भवंति, तथेति समुच्चये, स्वातिना स्वाति नक्षत्रेण युक्तश्चरमोत्त चरम कल्याणक दिनमिति प्राकृतत्वादिति गाथाद्वयार्थः ॥ ३४ ॥ ३५ ॥ अथ किमिति महावीरस्यैवैतानि दर्शितानी त्यन्नाह, अहिगय गाहा, व्याख्या - अधिकृत तीर्थ विधाता वर्द्धमान प्रवचन कर्ता भगवान्महावीर इति हेतो र्निदर्शिता न्युक्तानि इमानि कल्याणक दिनानि तस्यवर्द्धमान जिनस्य, अथ शेषाणांतान्यतिदिशन्नाह, शेषाणामपि वर्द्ध मानस्यैवऋषभादीनामपि वर्तमानावसर्पिणी भरत क्षेत्रापेक्षया एवमेवेह तीर्थे वटु मानस्यैव निज निज तीर्थेष स्वकीय स्वकीय प्रवचना वसरेषु विज्ञेयानि ज्ञातव्यानि मुख्यवृत्या विधेयतयेति, इह च यान्येव गर्भादि दिनानि जिनानां तान्येव सर्व जम्बूद्वीप भारतानामृषभादिजिनानां ताभ्येव सर्व भारतानां सर्वैरावतानांच यान्येवच एतेषामस्यामपसर्पिण्याम् तान्येवच व्यत्ययेनोत्सर्पिण्यामपीति गाथार्थः । । ३६ ॥ अथ किमेवं कल्याणकेष जिनयात्राविधीयते, इत्याह, तित्थ गाहा, वर गोय गाहा, व्याख्या - तीर्थकरे जिनविषये बहुमानं पक्षपातस्तदिदं दिनं यत्र भगवान् अजनीत्यादिविकल्पतः कृतोभवतीति, सर्वत्र गम्य इति यात्रये इत्यनेन योगः, तथेति वाक्पोपक्ष पार्थोऽत्रद्रष्टव्य अभ्यासोभ्यसनं चशब्दः समुच्चये, गीतकल्पस्य पूर्व पुरुषाच रेत्रलक्षणा वारस्य, तथा देवेन्द्रा
૧
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
-