________________
भावदेवभवदेवसानत्कुमारस्वर्गगमनवर्णनम्
स्मारं स्मारं पुनश्चित्ते नागवसुमुखांबुजम् । मूर्च्छन्निव पदं धत्ते प्रस्खलद्गतिविभ्रमम् ।। १६२ ।। किंचित्सोपायमालोच्य व्याजादूचे मुहुर्मुहुः । गृहं जिगमिषया भावदेवं प्रति सहोदरः ।। १६३ ॥ स्वामिन् स्मरस्ययं वृक्षो गव्येतिप्रमितः पुरः । क्रीडार्थं त्वमहं चास्तां प्रत्यहं यत्र सार्थतः ॥ १६४ ॥ इतः पश्य तडागं भी पंकजालीविराजितम् । श्रोतुं रुतं मरालस्य यत्रावां तस्थतुः पुरा ।। १६५ ॥ कृत्रिमं काननं पश्य नानानोक संहतम् । पुष्पावचयायावां च यत्राजग्मतुरादरात् ।। १६६ ॥ सेयं स्थली कृपानाथ चन्द्ररश्मिरिवोज्ज्वला ! यत्र कंदुकखेलायै तस्थुः सर्वेऽस्मदादयः ।। १६७ । इत्यादिविविधालापैरात्माकूतं वदन्नपि । भवदेवो न शशाकोच्चैर्मोहितुं तन्मनो मनाक् ।। १६८ ।। नापि पश्यति नेत्राभ्यां नो किंचिच्चितयेन्मुनिः । वचसापि न हुंकारं वदेद्वा बाहुसंज्ञया ॥ १६९ ॥ क्रमादेवं सुगच्छन्तौ प्रापतुर्गुरुसंनिधौ । धुरं धर्मरथस्यैतौ वोढारौ वृषभाविव ।। १७० ॥ ततस्तं मुनिमुद्दिश्य शंसुः सर्वेऽपि संयताः । धन्योऽसि त्वं महाभाग येनानीतोऽनुजः क्षणात् ॥ १७१ ॥ ततो भक्त्या प्रणम्याशु गुरुं सौधर्मसंज्ञकम् । उपविष्टो यथास्थाने भावदेवो मुनिस्तदा ।। १७२ ॥
१ क्रोशयुगं। २ कमलपंक्तिभिः । ३ अनोकहः वृक्षः । ४ अभिप्रायं । ५ वाहकौ ।
६७