________________
जम्बूस्वामिचरिते
ततो भूपाज्ञया केचिचेलुः पश्चान्मुनेस्तदा । यदेर्यापथसंशुद्धचा भिक्षार्थमयति स्म सः ॥ १६३ ॥ क्रमात्प्राप्तो विशुद्धात्मा तत्रीपासकसद्मनि ॥ स्वामिन्नमोऽस्तु तिष्टात्र श्रावकेनापि सत्कृतः ॥ १६४ ॥ यथान्नायं विधानज्ञो प्रसारितकरद्वयः ।
भोक्तुकामः स भोज्यस्य ग्रासं जग्राह शुद्धधीः ।। १६५ ।। यावद्भुक्तं स तावद्वै वारितो भूपकिंकरैः । मा मा भुंक्ष्वेति दुःशब्दैर्वज्राघातायतैरिव ।। १६६ ।। अयं च प्रथमो ग्रासो भागधेयोचितस्त्वया । देयः प्रतिदिनं तावद्यावद्राज्ञोऽभिशंसनम् ॥ १६७ ॥ उक्तमात्रे दुराचारैर्मुनिरागमकोविदः । सर्वे विज्ञापयामास कालावस्थांतरादिकम् ।। १६८ ।। नूनमेतत्समापन्नं दुष्टकालावचेष्टितम् । अन्यथानर्थसंमृतिरियं पापक्रिया कथम् ।। १६९ ॥ इति निश्चित्य शास्त्रज्ञो जीवनाशापरिच्युतः । त्यक्त्वा पाणिपुटाहारं सावधानो भवेन्मुनिः ॥ १७० ॥ यावज्जीवं चतुर्थापि मनोवाक्काययोगतः ।
त्यक्त्वा (क्त) माहारकं सर्वं मुनिना भवभीरुणा ॥ १७१ ॥ ततोऽप्यार्थिकया साक्षान्मुक्तं खाद्यादिकं स्वतः । सल्लेखनाविधौ चित्तं सावधानतया धृतम् ॥ १७२ ॥ सस्त्रीकः श्रावकश्चापि चक्रे सल्लेखनाविधिम् । मुनिवद्भवभोगेभ्यो विरक्तः स्वशरीरके ।। १७३ ।।
३४