________________
जम्बूस्वामिचरिते
तयोर्द्वयोः प्रीतिरसामृतात्मकः स भाति नाना- टकसार-दक्षकः । कथं कथायां श्रवणोत्सुकः स्यादुपासकः कश्च तदन्वयं वदे ।। ५९ ।। श्रीमति काष्ठासंघे माथुरगच्छेऽथ पुष्करे च गणे । लोहाचार्यप्रभृतौ समन्वये वर्त्तमानेऽथ ।। ६० ।। तत्पट्टे परममलयकीर्तिदेवास्ततः परं चापि । श्रीगुणभद्रः सूरिर्भट्टारकसंज्ञकश्चाभूत् ।। ६१ ।। तत्पट्टमुच्चमुदयाद्रिमिवानुभानुः श्रीभानुकीर्तिरिह भाति हतांधकारः । उद्द्योतयन्निखिलसूक्ष्मपदार्थसार्थान्
भट्टारको भुवनपालकपद्मवन्धुः ।। ६२ ।। तत्पट्टमब्धिमभिवर्द्धन हेतुरिन्दुः सौम्यः सदोदयमयी लसदंशुजालैः । ब्रह्मव्रताचरणनिर्जितमारसेनो
भट्टारको विजयतेऽथ कुमारसेनः ।। ६३ ।। उग्राग्रोतकवंशजो वरमतिर्गौत्रे च गर्गोऽभवत् काष्ठासंघ भद्यानियां (१) च नगरे कोलेति नाम्ना वरात् । श्री साधुर्मदनाख्यया तदनुजो भ्राता स आसू सुधीस्तत्पुत्रो जिनधर्मशर्मनिरतः श्रीरूपचंद्राह्वयः ॥ ६४॥ तत्पुत्रः पुनरद्भुतोदयगुणग्रामैकचूडामणिः श्रीपासांवरसाधुसाधुगदितः सर्वैः समं साधुभिः । रेखा यस्य विराजते धुरि तदारंभे महौजस्विनां धर्मश्रीसुखदानमानयशसां जैनेऽथ धर्मे रतः ।। ६५ ।।
८
१ अयं श्लोकः लाटसंहितायामपि उपलभ्यते । २ ' अलीगढ़ ' इति प्रसिद्धः ।