________________
विद्युच्चरसर्वार्थसिद्धिगमनवर्णनम्
२३१
एवं संमिलिता भंगेः कषाया षोडश स्मृताः। नोकषायास्तथा ज्ञेया संख्यया नव तद्यथा ॥१११ ।। हास्यो रत्यरती चैव शोको भीतिस्तथैव च । जुगुप्सास्त्रीनरक्लीववेदाचोदेशिताः क्रमात् ॥ ११२ ॥ एवमेकीकृताः सर्वे पंचविंशतिसंख्यकाः। कर्माश्रवस्य कर्तृत्वान्महानर्थविधायिनः ।। ११३॥ अविरतिस्तु विख्याता सर्वतो द्वादशाख्यया । अंतर्भूता कषायेषु पृथगप्युपदेशिता ॥ ११४ ।। इंद्रियाणि च पंचैव मनः षष्ठमुदाहृतम् । तेषामनिग्रहात्मोक्ता षोढा विरतिरित्यपि ॥ ११५॥ पंचस्थावरजीवानां षष्ठस्यापि त्रसस्य च । प्राणापरोपणं हिंसा पोढा सा चेति समिता ॥ ११६॥ धर्मः स्वात्मानुभूत्याख्य प्रमादोनवधानता । हेतोः कर्माश्रवस्यास्य भेदाः पंचदश स्मृता ॥ ११७ ॥ उक्तं च"विकहा तहा कसाया इंदियणिद्दा तहेव पणगो य । चदु चदु पणमेगेगं होति पमादा हु पण्णरसा ॥१॥" योगश्चात्मप्रदेशानां परिस्पंदस्त्रिधा मतः । मनोवाकायरूपाणां वर्गणानां विपाकतः ॥११८ ॥ सोऽपि सत्यादिरूपेण भिद्यते नैकधा बुधैः। औदारिकादिभेदैश्च काययोगोऽप्यनेकधा ॥ ११९ ॥ १ विकथास्तथा कषाया इन्द्रियनिद्रास्तथैव प्रणयश्च । चतुःचतुःपंचैकैकं भवन्ति प्रमादा खलु पंचदश ॥
गोम्मटसारजीवकांडे गा. ३४ ।।