________________
जम्बूस्वामिचरिते
ततोऽपि धृत्वा गिरिगहरादितः श्रिता वधं केचन बंधनं क्षणात् । महायो मंत्रबलादिवाहताः प्रपेतुरापन्निधिसंनिधानके ॥१८॥ न केवलं दिग्विजयेऽस्य भूभृतां सहस्रखंडैरिह भावितं भृशम् । भुवोऽपि निन्नोन्नतमानयानया चलच्चमभारभरातिमात्रतः।।१९।। अपि क्रमात्मरतिसंज्ञको गिरेरपांनिधेः संनिधितः समत्सरः। कदापि केनापि न खंडितो यतस्ततोऽस्ति दुर्गो बलिनां हि दुर्जयः अनेन सोऽपि क्षणमात्रवेगादनेकखंडैः कृतजर्जरो जितः। विलंध्य वादि रघुनाथवत्तया परं विशेषः कलिकौतुकादिव ।।२१।। अवापुः के(चितरिपवः पयोनिधेः परं तट कोटिभटा नटतः । ततोऽस्य मन्ये न कुतोऽप्यपूर्यत प्रचंडदोर्विक्रममक्रमोद्भवम् ॥२२॥ शिते कृपाणेऽस्य विदारितारितः (णः?)
पलाशनात्कुर्वति पानमब्धितः । ततोऽधिकं क्षारतया बुभुक्षितेः जगत्त्रयं त्रासमगादनेहसः ॥२३॥ तथाविधोऽप्युद्धतवीरकर्मणि दयालुता चास्य निसर्गताऽभवत् । क्रमेण युगपन्नवधा रसाः स्फुटमचिन्त्यचित्रा महतां हि शक्तयः२४ प्रपालयामास प्रजाः प्रजापतिरखंडदंडं यदखंडमंडलम् । अखंडलश्चंडवपुः मुरालयं श्रितामरानेव स बंधुवुद्धितः ।।२५।। करं न मेने जगतोऽतिदुष्करं परंतुकलौ यदि योषितां मृदम् । मदं न जग्राह कुतोऽपि कारणादपि द्विपेन्द्रानिह तद्वतोऽथवा २६ मुमोच शुल्कं त्वथ जेजियाभिधं स यावदंभोधरभूधराधरम् । धराश्च नघः सरितांपतेः पयः यशःशशीश्रीमदकब्बरस्य च २७ वधेनमेतद्वचनं तदास्यतो न निर्गत कापि निसर्गतं श्वि(तश्चिः)तिः। अनेन तद्यूतमुदस्तमनसः सुधर्मराजः किल वर्ततेऽधुना ॥२८॥ १ तीक्ष्णे । २ कालः । ३ मदवतः । ४ धरास्पदं यः इति वा पाठः ।