________________
कथामुखवर्णनम्
तदापि नम्रीकृतभूमिपालकः कपालमालामभिर्भिद्य विद्विषाम् ।। १२ ।।
ततः क्रमाद्यौवनमाश्रितो वय
स्तदा द्रवन् संगरसंगतः क्षणात् । स्त्रियोऽपि कंदर्पमपत्र पारते द्विषश्च वह्नाविव तापसंज्ञके ॥ १३ ॥ गजाश्वपादातिरथादिकेषु यो मंत्रासिदुर्गद्रविणेषु कोटिषु । लिलेख लेखां भवितव्यताश्रितो वलं स्वसाद्विक्रममात्रसंभवम् ॥ १४ ॥ लब्धावकाशादथवा प्रसंगाद्यतो हता दुर्जनकिंकराकराः । तदत्र नामापि न गृह्यते मया लघुप्राणौ ननु पौरुषं कियत् ।। १५ ।। अथास्ति किंचिद्यदि चित्रकूटकमुत्ख्यातिलेखीकृतचित्रकूटकम् । अतोरणस्तंभमवाप हेलया
m
किमद्भुतं तत्र समानमानतः ।। १६ ।। जगज्ज (जे) गाजी गुजरातमध्यगो मृगाधिपादप्यधिकः प्रभावतः । मदच्युतो वैरिगजस्तदानीमितस्ततो याति पलायमानः ॥ १७ ॥
१ शत्रणाम् । २ अकव्बरः । ३ द्रव्येषु । ४ स्वाधीनं कृतवान् । इति हस्तलिखित पुस्तक टिप्पण्याम् ।