________________
१६६
जम्बूस्वामिचरिते
ताराणां निकरो रेजे तदा व्योम्नीव निर्मलः । यामिनीकामिनीभूषाहेतुमुक्ताकदंबकः ॥ १०८ ॥ अथ तासां शरीरेषु ज्वलति स्म स्मरानलः । प्रत्युपायैरसह्यश्च साभिलाषो रिरंसया ॥ १०९ ।। क्षणमेकं ततः स्थित्वा ताभिः कामातुरात्मभिः । मंदं मंदमथालापं कुर्वतीभिः परस्परम् ॥ ११० ।। कामाकुलाभिराभिश्च ताम्बूलादिसुदित्सया । आरब्धा स्मरसंचेष्टा नानाशृंगारवार्त्तया ।। १११ ।। दर्शयेत्कामुकी काचित्तत्र हारमिषात्स्तनौ । दृढी बिल्वफलाकारो यौवनांभोभृतौ घटौ ।। ११२ ।। काचिन्नाभि सुगंभीरां दर्शयंती स्थलादिह । काचिद्रुद्वयोल्लासं धत्ते स्म निजलीलया ॥ ११३ ।। काचिददृढहासादिनर्मगर्भ च मर्मभित् । वचश्चीचे नवोद्वाहा स्वामिनं प्रति सस्मरा ॥ ११४ ॥ काचिदृक्कोणलीलाभिः स्वसाकंतु समीहते । हावभावविलासाद्यैः काचित्कांतं विमोहति ॥ ११५ ।। काचिद्रागांश्च गायंती पवम (न) ध्वनिमिश्रितान् । काचित्पठति वैदग्ध्यावजितं स्वामिनो मनः ॥ ११६ ।। इत्यादिविविधैर्भावैर्दर्शयंत्यः स्वपाटवम् । न क्षमास्ताश्चतस्रोऽपि तन्मनो मोहितुं मनाक् ॥ ११७ ॥ इतिसुकृतविपाकात्स्वामिजम्बूकुमार:
सकलमुखनिधानो मारमातंगासिंहः।