________________
१४४
जम्बूस्वामिचरिते
यत्स्फाटिको मणिः खच्छः स्वभावादिति भावतः । सोऽप्युपाधिवलादेव रक्तपीतादिकां व्रजेत् ॥ २१ ।। तथायं चित्स्वभावोऽपि जीवोऽतीन्द्रियसौख्यवान् । धत्ते मानादिनानात्वमुदयादिह कर्मणाम् ॥ २२ ॥ कुर्वन्नालोचनामित्थमास्ते यावत्कुमारकः। संसक्तस्तावदुच्चैस्तै रत्नचूलादिभिर्नृपः ।। २३ ॥ अहो द्रव्याश्रयत्वाच गुणा निर्गुणलक्षणाः। अस्त्यनिर्वचनीयोऽयं गुणवांश्च गुणस्त्वयि ॥ २४ ॥ यत्परे परसाहाय्याज्जयांशेऽपि मदोद्धताः । असहायबलत्वावं निर्विष्णो विजयीभवन् ॥ २५ ॥ विना च्यूतद्रुमं कोऽत्र फलितो याति नम्रताम् । ऋते भवादृशः सौम्य को विजित्य शमं व्रजेत् ।। २६॥ इत्यालापे मिथस्तेषां स्वामी रत्नशिखाद्विषाम् । ऊचे गगनगत्याख्यो खगश्चाकस्मिकं स्वतः ॥ २७ ॥ स्वामिन् जम्बूकुमार त्वं यावयुद्धेसि वीरहा। अनेनापि मृगांकन कृतं तावत्स्वपोरुपम् ॥ २८ ॥ तत्केन वर्णितुं स्वामिन् शक्यते त्वत्पुरोऽधुना। परं वीरपि श्लाघ्यं श्रुतमध्यक्षतो मया ॥ २९ ॥ श्रुत्वा तज्जातकोपः स रत्नचूलोऽवदत् क्रुधः। असहिष्णुरतिक्रांतो मिथ्यावादातिभारतः ॥ ३० ॥ न तत्पराजयान्नूनं दुःखमाप खगाधिपः। यन्मृषाहंकृतेस्तत्र मृगांकवलशंसनात् ॥ ३१ ॥