________________
जम्बूस्वामिविजयवर्णनम्
सैन्यकैः परमूराणां मुखं भग्न शितैः शरैः। ततः कृपाणैः कुंतेश्च मुद्गरैरथ पट्टिशैः ।। २३५ ॥ केचिच्छिन्नाः परे भिन्ना नेशु वार्थिनः परे । कटमर्दहताः केचिदंगैः केऽपि कर्थिताः॥२३६ ॥ यत्राच्छन्ने नभोमार्गे बाणवातैरितोऽमुतः। खड्गविद्युच्चमत्कारैर्दुर्दिनं ज्ञायते भटैः ।। २३७॥ अलं वर्णनया चास्य जातश्चैकार्णवो महान् । स्वीयोऽयं परकीयोऽयं भेदः कर्तुं न शक्यते ॥ २३८ ॥ केचिदंत्राणि संवीक्ष्य निर्गतान्युदरादगुः। मृ भूमिलुठत्केशा भटा दुष्कृतपाकतः ॥ २३९ ।। कश्चित्केशान् समाकृष्य लुलावारिशिरस्तदा। मारयामीत्यमु शत्रु मत्वा धावति कश्चन ॥ २४ ॥ युद्धं चक्रुः कबंधानि भीषणे यत्र संगरे। का कथा सशिरस्त्राणां तनुत्रैरपि संयुषाम् ।। २४१॥ वायुमार्गेऽथ कुर्वतो युद्धमुद्धतमुल्बणम् । कुमाररत्नचूलौ द्वौ ददर्श मृगलांछनः ।। २४२ ॥ लीलया तच्छरासारं चिच्छेद निजसायकैः । अर्धचन्द्रमुखैर्जम्बूस्वामी तत्केतनं पुनः ।। २४३ ॥ रत्नचूलस्य यद्यानं विमानं हतवान् रणे । अधिरोहुँ समीहेत यावद् भूमिगतः खगः ॥ २४४ ।। १ पटिशो लोहदंडो यस्तीक्ष्णधारः क्षुरोपमः । इति वैजयन्ती । २ पलायनं चक्रुः । ३ अपमूर्ध नर्तनक्रियायुक्तं यत्कलेवरं तत् कबन्धम् ।