________________
जम्बूस्वामिचरितेउच्चखान वनं सर्वं रौद्रश्चातिविभीषणः । उच्छिन्दन् तरुमूलानि मूलोन्मूलमितस्ततः ॥ ६५ ॥ आम्रजम्बूसुजंबीरनारंगनिकरांकितम् । तमालतालकंकोलिकदंबालीविराजितम् ॥ ६६ ॥ सल्लकीशालमालाभिः पिचुमैन्दैरिहाततम् । द्राक्षारुचकखर्जूरदाडिमीफलसंभृतम् ॥ ६७ ॥ जातीचंपककुंदैश्च मुचकुन्दैः सुगंधिभिः । पाटलारामवल्लीभिः रमणीयं मनोरमम् ॥ ६८॥ नागवल्लीमहावल्लीबिल्वबकुलपल्लवैः । पल्लवितं नभोमार्गे श्रीखंडादिदलैरपि ॥ ६९ ॥ एलालवंगजातीनां फलैः पुष्पैरलंकृतम् । राजादनीनालिकेरपूगीफलसमन्वितम् ।। ७० ।। केकिकेकारवाकीर्ण कोकिलाकलनिस्वनः । किमत्र बहुनोक्तेन इलाध्यं यत्रिदशैरपि ॥ ७१ ॥ तत्सर्व हेलया दन्ती बभञ्जभपतिः क्षणात् । यथा पुण्यतरं लोभैविषयमलिनं मनः ॥ ७२ ॥ यतस्ततः पलायंतस्तत्र केचिद्भयातुराः। कातरत्वं समादाय न पुनः सन्मुखं ययुः॥७३॥ केचिद्रामापरित्राणे पर्याकुलितचेतसः। यन्नधेिये समालम्ब्य सावधानाः पदं दधुः ।। ७४॥ भाव्यमद्य किमत्राहो चिंतयन्तो भटा अपि । न क्षमाः सन्मुखं गन्तुं बन्धनायाशु दंतिनः ॥७५॥ १ निम्बैः ।