SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३८ वृत्तरत्नाकरः । हंसरुतमेतत् । जैं समानिका गलैौ च । प्रमा णिका जरौ लगौ । वितानमाभ्यां यदन्यत् ॥ ८॥ अथानुष्टुजातौ भौग्ग् द्वौ भगणौ गुरुद्वयं च यदा भवति तदा चित्रपदानाम | मो मो गो गो द्वौ मगणौ द्वौ गुरू च विद्युन्माला छंदः । भाद्भगणात् परे तलगाः तगणलघुगुरवो यदि भवति तदा माणवकं छंदः । मगणनगणौ द्वौ गुरू चैतत् हंसरुतं नाम छंदः रगणजगणौ गुरुलघु च यदि भवतस्तदा समानिकानाम छंदः । जगणरगणौ लघुगुरू च तदा प्रमाणिकानाम छेदः । आभ्यां समानिकाप्रमाणिकाभ्यां यदन्यलक्षणं तद्वितानंनाम छंदो भवति ॥ ८ ॥ बृहती। रान्नसाविह हलमुखी । भुजगशिशुभृता नौ मः ॥ ९ ॥ अथ बृहत्यां जातौ रात् रगणात्परौ नसौ नगणसगणौ यदि भवतस्तदा इलमुखीनाम छंदः । इहास्मिन् शास्त्रे द्वौ नगणौ मगणश्च यदि भवति तदा भुजगशिशुभृतानाम छंदो भवति ॥९॥ पंक्तिः । म्सौ जगौ शुद्धविराडिदं मतं । म्नौ । गौचेति पणवनामेदम् । जैं रगौ मयूरसारिणी स्यात् । म्भौ सगयुक्तौ रुक्मवतीयम् । ज्ञेया । । मत्ता मभसगयुक्ता । चंपकमाला चेद्भमसाद्गः । नरजंगैर्भवेन्मनोरमा ॥ १० ॥ I पंक्त्यां जातौ सौ मगणसगणौ जगौ जगणगुरू च यदि भवतस्तदा शुद्धविराडिति मतमभिप्रेतम् । मगणनगणौ रगणगुरू च यदा भवतस्तदा पणवनामकं छंदः । रगणजगणौ रगणगुरू च यदि भवतस्तदा मयूरसारिणीनाम छंदः स्यात् । भगणमगणौ सगणगुरुभ्यां For Private and Personal Use Only
SR No.034374
Book TitleShrutbodh Vrittartankrou Granthou
Original Sutra AuthorN/A
AuthorKhemraj Krushnadas
PublisherKhemraj Krushnadas
Publication Year1920
Total Pages71
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy