________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटीकः।
इदानीं समवृत्ताध्यायमभिधातुमाह ॥ गः गुरुयदि पादेपादे एकैको वर्णो भवति तदा उक्तायां जातौ श्रीनाम वृत्तं भवति ॥१॥ पादेपादे द्वौ गकारौ यदि भवतस्तदा अत्युक्तायां जातौ स्त्रीनाम छंदो भवति ॥ २॥ पादेपादे एकैको मगणो याद भवति तदा मध्यायां जाती नारीनाम छंदः । रो रगणो यदि भवति तदा मध्यायां जाती मृगीनाम छंदः ॥ ३ ॥ एवं यावंतश्छंदोभेदा भवंति तावंत एवमवतार्याः । म्गौ! मगणगुरू चेद्यदि भवतस्तदा प्रतिष्ठायां जातौ कन्यानाम छंदः ॥ ४ ॥
सुप्रतिष्ठा ॥ गौ गिति पंक्तिः ॥५॥ गायत्री । त्यो स्तस्तनुमध्या। शशिवदनान्यौ त्सौ चेसुमती ॥६॥
भगौ भगणो द्वौ गुरू च भवत इति सुप्रतिष्ठायां जातौ पंक्ति - मछंदः ॥ ५॥ त्यौ तगणयगणौ यदि स्तस्तदा गायत्र्यां जाती तनुमध्या । न्यौ नगणयगणौ यदि तदा शशिवदना । चेद्यदि त्सौ तगणसगणौ भवतस्तदा वसुमती ॥ ६ ॥
उष्णिक् । मधु यदि ननगाः । कुमारललिता ज्सौग । म्सौगः स्यान्मदलेखा ॥७॥ यदि ननगाः द्वौ नगणौ गुरुश्च भवति तदा उष्णिहि जाती मधुसंज्ञं भवति । सौर जगणसगणौ गुरुश्च कुमारललिता । म्सौगः मगणसगणौ गुरुश्च यदा भवति तदा मदलेखा ।। ७ ॥
अनुष्टुप् ॥ भौ ग्गिति चित्रपदा गः। मो मो गो गो विद्युन्माला ॥ माणवकं भात्तलगाः। म्नौ गौ
For Private and Personal Use Only