________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटीकः। अयुजोः विषमपादयोः पयोराशेः समुद्राच्चतुरक्षराचेद्यदि नकारोनगणो भवति तदा चपलवकं नाम छंदः स्यात् ॥ ४॥
यस्यां लः सप्तमो युग्मे सा युग्मविपुला मता॥५॥ यस्यां छंदोजातौ सप्तमस्थाने युग्मे समपादे सप्तमो लो लघुवति सा युग्मविपुला मताऽभिप्रेता ॥ ५॥
सैव तस्याखिलेष्वपि ॥६॥ सैव तस्याचार्यस्याभिप्रायेण यस्याः सकलेषु समस्तेषु सप्तमो लघुर्भवति सा युग्मविपुला भवति ॥ ६ ॥
भेनाधितो भाद्विपुला ॥७॥ अब्धितः समुद्राद्भन भगणेन भाद्भकारात्परा विपुला भविपुलेत्यर्थः॥ - इत्थमन्यारश्चतुर्थात् ॥८॥
इत्थममुना प्रकारेण चतुर्थाच्चतुरक्षरात् रो रगणो यदि भवति तदान्या रविपुला भवति ॥ ८॥
नोम्बुधेश्चेत्रविपुला ॥९॥ अंबुधेः समुद्राचतुरक्षरात्परो यदि नो नगणस्तदा नविपुला भवति९ तोऽन्धेस्तत्पूर्वान्या भवेत् ॥१०॥
इति वक्रप्रकरम् । अब्धेश्चतुरक्षराद्याद तस्तदा अन्या विपुला तत्पूर्वा तविपुला भवति ॥ १० ॥ इति वक्रप्रकरणम् ॥ द्विकगुणितवसुलघुरचलधृतिरिति ॥१॥ अथात्र वृत्तान्यधिक्रियते तान्येवाह॥ दावेव द्विको द्वाभ्यां गुणि
For Private and Personal Use Only