________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वृत्तरत्नाकरः। - ओजयुग्मको विषमसमौ यदा पूर्वयोरुदीच्यवृत्तिप्राच्यवृत्त्योः समौ तुल्यौ यथासंख्येन विषमसमौ यदा वा भवतस्तदा प्रवृत्तकं नामछन्दो भवति ॥ ७॥
अस्य युग्मरचिताऽपरांतिका ॥ ८॥ अस्य वैतालीयस्य युग्मरचिता समपादरचिता समस्तपादेष्वष्टौ कला रगणो लघुर्गुरुश्च भवति साऽपरांतिका नाम छंदः ॥८॥ अयुग्मगा चारुहासिनी ॥ ९॥
___ इति वैतालीयप्रकरणम् । वैतालीयादेविषमपादजाता समस्तपादेषु सैव लक्षणेन चारुहासिनी भवति ॥ ९ ॥ इति वैतालीयप्रकरणम् ॥ वत्रं नाद्यान्नसौ स्यातामन्धेर्योऽनुष्टुभि ख्यातम् ॥ १॥
आद्यात्प्रथमाक्षरात्परतो नसौ नगणसगणौ न स्यातां न भवेतां किंतु हि नियमेनाब्धेः परो यो यगणः कार्यस्तदा वकं नाम छंदः स्यात् । अनुष्टुभि अनुष्टुप्पकरणे ख्यातं प्रसिद्धम् ॥ १ ॥
यु|जैन सरिद्भर्तुः पथ्यावकं प्रकीर्तितम् ॥२॥ युजोः समपादयोः सरिद्भर्तुः समुद्राच्चतुरक्षरात् जैन जगणेन कृत्वा पथ्यावकं नाम छंदः प्रकीर्तितं कथितम् ॥२॥
अयुजोर्जेन वारिधेस्तदेव विपरीतादि ॥३॥ अयुजोर्विषमपादयोऽरिधेश्चतुरक्षरात्परे पादे जेन जगणेन तदेव पथ्यावकं नाम विपरीतादि विपरीतपथ्यावकं भवतीत्यर्थः ॥३॥
चपलावक्रमयुजोर्नकारश्चेत्पयोराशेः॥ ४ ॥
For Private and Personal Use Only