________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटीकः।
१३
कृशोदरि यत्र चतुर्थकं चेत्सप्तमकं तथा दशमम् इमान्यक्षराणि गुरूणि सन्ति । विरतिजम् अंत्यं दादशं गुरु स्यादित्यर्थः । कृशमुदरं यस्याः सा कृशोदरी तत्संबुद्धौ । तदुक्तं रत्नाकरे । दुतविलवितमाह नभौ भरौ ॥ ३० ॥ द्रुतविलंबितं । च० अ० १२, ग० न, भ, भ, र.॥
यदि तोटकस्य गुरु पंचमकं विहितं विलासिनि तदक्षरकम् ॥ रससंख्यकं गुरु न चेदवले प्रमि
ताक्षरेति कविभिः कथिता ॥ ३१ ॥ - प्रमिताक्षरालक्षणमाह । यदि तोटकस्यति । हे अबले कविभिः प्रमिताक्षरा इति कथिता । किं हे विलासिनि यदि तोटकस्य उक्तलक्षणकस्य पंचमकं वर्ण गुरु विहितं स्यात् रससंख्यकं षष्ठं गुरु न चेत् गुरु तु पंचममेव सा प्रमिताक्षरेत्यर्थः। विलासो विभ्रमो यस्याः सा विलासिनी तत्संबुद्धौ । तदुक्तं रत्नाकरे । प्रमिताक्षरा सजससैरुदिता ॥३१॥ प्रमिताक्षरा । च० अ० १२. ग० स, ज, स,स॥
प्रथमाक्षरमाद्यतृतीययोर्दुतविलंबितकस्य च पादयोः ॥ यदि चेन्न तदा कमलेक्षणे भवति सुंदर सा हरिणीप्लुता ॥३२॥
अथ हरिणीप्लतालक्षणमाह । प्रथमाक्षरमिति । हे कमलेक्षणे सुकविमिः तदेयं हरिणीप्लुता कथिता । यदि द्रुतविलंबितकस्य छंदस आयतृतीययोः पादयोः प्रथमाक्षरं चेत् एकादशाक्षरमेवं विषमपादयोः तदेयं हरिणीप्लुता । कमलवदीक्षणे यस्याः सा तत्संबुद्धौ हेसुंदरि शुभांगे । तदुक्तं रत्नाकरे १, ३, सौ स्लो गः । २, ४; न्मी भ्रौ । पक्षे हरिणीप्लुता ॥ ३२ ॥ हरिणीप्ता । च० १, ३, अ० ११, ग० स, स, स; ल, ग ॥ च० २, ४; अ० १२, ग० न, भ, भ, र ॥
For Private and Personal Use Only