________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२
श्रुतबोधः। द्वादशाक्षरजाती तोटकलक्षणमाह । सतृतीयकमिति । हे घनपीनपयोधरभारनते ननु इह निश्चितं तोटकवृत्तं कथितं विस्तारितं चेद्यदि हे अनंतरते सतृतीयकं षष्ठं नवमं गुरु स्यात्तृतीयं षष्ठं च तृतीयषष्ठे ताभ्यां सह वर्तत इति । कीदृशं विरतिप्रभवम् अंत्यं द्वादशं गुरु स्यात् । अनंता अपरिमिता तिर्यस्याः सा अनंतरतिः तत्सं. बुद्धौ । घनौ च पीनौ च घनपीनौ कठिननिविडी पयोधरौ च तयोर्भारः आधिक्यं तेन नता नम्रीभूता या सा तत्संबुद्धौ । विरतेः प्रभव उत्पत्तिर्यस्य तत्तथोक्तम् । तदुक्तं रत्नाकरे । इह तोटकमंबुधिसैः कथितम् ॥ २८ ॥ च० अ० १२, स, स, स, स, यतिः ६, ६ ॥
यदाद्यं चतुर्थ तथा सप्तमं चेत्तथैवाक्षरं ह्रस्वमेकादशाद्यम् ॥ शरच्चंद्रविद्वेषिक्कारविदे तदुक्तं कवींद्रेर्भुजंगप्रयातम् ॥२९॥ भुजंगमयातलक्षणमाह । यदाद्यामिति । हे शरचंद्रविद्वेषिवकारविंदे कवींद्रेस्तच्छंदो भुजंगप्रयातमुक्तं कथितम् । किं चेद्यदा आद्यं प्रथम तथा चतुथ तथा सप्तमम् एव निश्चितम् एकादशाद्यम् एकादशस्यादिभूतं दशममक्षरं ह्रस्वंस्यात्तदिति संबंधः शरदः चंद्र शरच्चंद्रातस्य विद्वेषि वक्रमेवारविंदं यस्याः सा तत्संबुद्धौ। तदुक्तं रत्नाकरे।भुजंगप्रयातं भवेद्यैश्चतुर्भिः ॥२९॥ भुजंगप्रयातम् । च० अ० १२. ग० य, य, य, य. यतिः ६, ६॥
अयि कृशोदरि यत्र चतुर्थक गुरु च सप्तमकं दशमं तथा ॥विरतिजं च तथैव विचक्षणैर्दुतविलंबितमित्युपदिश्यते ॥३०॥
द्रुतविलंबितलक्षणमाह । अयि कृशोदरीति ॥ अयि इति कोमलालापे । विचक्षणैः पंडितैर्दुतविलंबितमित्युपदिश्यते । इति किं हे
For Private and Personal Use Only