________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटीकः। अथेंद्रवज्रालक्षणमाह । यस्यामिति । हे पायी पलासकांते कवींद्रास्तामिंद्रवज्रा ब्रुवते।गत्या गमनेन विलज्जीकृता हंसस्य कांतिः शोभा यया सा तस्याः संबोधनं। तां कां यस्यां त्रिषट्सप्तममक्षरं ह्रस्वं स्यात् तदन्नवमं हस्वं स्यात् । हे सुजंघे तामिति संबंधः। एतादृशीम् इंद्रवज्रां ब्रुवते सुष्ठु शोभने जंघे यस्याः सा तत्संबुदौ । कवीनां कविषु वा इंद्राः पूज्याःबृहस्पत्यादयः।तदुक्तं रत्नाकरे। स्यादिंद्रवज्रा याद तो जगौ गः ॥ २१ ॥ इंद्रवज्रा। च०अ० ११ ग० त, त, ज, ग, ग; यतिः ५, ६ ॥ यदींद्रवज्राचरणेषु पूर्वे भवति वर्णा लघवः सुवर्णे ॥ अमंदमाघन्मदने तदानीमुपेंद्रवज्रा कथिता कवींद्वैः॥२२॥
अथोपेंद्रवज्रालक्षणमाह । यदीति । हे अमंदमाद्यन्मदने तदानीं कवींद्र यदींद्रवज्राचरणेषु पूर्व वर्णा लघवःसंति शेषमिंद्रवज्रावत् आयवर्ण ह्रस्वमेवेतिशेषः।चतुर्वपि पादेषु आयो ह्रस्वो हे सुवर्णे सा उपेंद्र वज्रा कथिता । अमंदं बहुलं माद्यन् हर्ष कुर्वन्मदनो यस्यां सा तत्संबुद्धौ । तथा चोक्तं रत्नाकरे । उपेंद्रवज्रा जतजास्ततो गौ ॥२२॥ उपेंद्रवज्रा । च० अ० ११, ग० ज, त, ज, ग, ग, यतिः ५, ६॥
यत्र द्वयोरप्यनयोस्तु पादा भवंति सीमंतिनि चंद्रकांते ॥ विद्वद्भिरायैः परिकीर्तिता सा प्रयुज्यतामित्युपजातिरेषा ॥२३॥ उपजातिलक्षणमाह। यत्रोत। हे चंद्रकांते सा एषा उपजातिरिति प्रयुज्यतां ।कथंभूता सा आद्यैः पुरातनैर्विद्वद्भिः पंडितैः परिकीर्तिता कथिता।सा का हे सीमंतिनि यत्र द्वयोरनयोरिंद्रवज्रोपेंद्रवज्रयोराप पादा यथाक्रमेण भवंति। प्रथमे तृतीये च इंद्रवज्रालक्षणं द्वितीये चतु
For Private and Personal Use Only