________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८
श्रुतबोधः ।
सा ॥ तद्विद्वद्भिर्भुवमभिहिता ज्ञेया हंसी कमलवदने ॥ १९ ॥
हंस्या लक्षणमाह । मन्दाक्रांतेति । हेकमलवदने तत्तदा धुवं निश्चयेन हंसी ज्ञेया ज्ञातव्या । कमलवत्सौंदर्य सौरभादिगुणैः कमलसदृशं वदनं मुखं यस्याः सा तत्संबोधनम् । कथंभूता हंसी विद्वद्भिः पंडितैरभिहिता कथिता। तदा कदा हेसालंकारे यदि मंदाक्रांता अंत्ययतिरहिता अंते भवा अंत्या मंदाक्रांतायां युगरसहयैः विश्रामः सांत्यरहिता दशवर्णात्मिका सा हंसी ज्ञेया लक्षणं मंदाक्रांताया एव । अलंकारेण आभूषणेन सह वर्तमाना सालंकारा तस्याः संबो धनं सालंकारे ॥ १९ ॥ हंसी । च० अ० १०, ग० म, भ, न, ग, यतिः । ४, ६ ॥
आद्यचतुर्थमहीन नितंबे सप्तमकं दशमं च तथां - त्यम् ॥ यत्र गुरु प्रकटस्मरसारे तत्कथितं ननु दोधकवृत्तम् ॥ २० ॥
अथ दोधक वृत्तलक्षणमाह । आद्यचतुर्थमिति । हेप्रकटस्मरसारे कविभिः तत् ननु दोधकवृत्तं कथितं । प्रकटः स्मरसारः कामबलं यस्याः सा तस्याः संबोधनम् । हे अहीननितंबे अहीनौ स्थूलौ नितंबौ कटिपश्चाद्भागौ यस्याः सा तत्संबुद्धौ । यत्र यस्मिन् आद्यचतुर्थं प्रथमं चतुर्थ सप्तमकं सप्तमं दशमं तथा अंत्यम् एकादशम् एतानि अक्षराणि गुरूणि संति । तदुक्तं रत्नाकरे | दोधकवृत्तमिदं भमभागैः ॥ २० ॥ दोधकं । च० अ० ११, ग० भ, भ, भ, ग, ग ॥ यस्यां त्रिषट्सप्तममक्षरं स्याद्धस्वं सुजंधे नवमं च तद्वत् ॥ गत्या विलज्जीकृत हंसकांते तामिंद्रवज्रां ब्रुवते कवींद्राः ॥ २१ ॥
For Private and Personal Use Only