________________
२२२
वादार्थसंग्रहः
[ ४ भाग:
कर्तृकेऽपि पाके इदं सम्भवति तथापि चैत्रकर्तृकस्वविशिष्टस्य पाकस्यानुकूलत्वं पाकव्यापारयोः संसर्गो बोध्यः ।
1
यद्वा-तत्र णिच आख्यातस्य व्यापारोऽर्थः । चैत्र तण्डुलं पाचय मैत्र इत्यादौ चैत्रकर्तृकतन्दुलकर्मक पाकानुकूलव्यापारवान्मैत्र इति बोधः । अतएव केवळ्योरपि पचति -पाचयति शब्दयोर्विलक्षणबोधहेतुत्वम् । चैत्रं घटं ज्ञापयतीत्यादौ चैत्रपदोत्तरद्वितीयायाः समवेतत्वं घटपदोत्तराया विषयित्वं समवेतत्वं घटविषयकज्ञानानुकूलव्यापारवानित्यर्थः । चैत्रं तन्दुल पाचयति मैत्र इत्यादौ जिर्थे व्यापारे चैत्रपदोत्तरद्वितीयार्थः । चैत्रकर्तृकत्वं जनकतासम्बन्धेनातीति केचित् ।
aanat far आलियत इत्यत्र मिथः पदार्थः कर्मत्वं तत्तत्कर्मत्वं वा । तचाश्लेषेणान्वयि । तथा चैत्रकर्मका लेषणानुकूलकृतिमांश्चैत्र: मैत्रकर्मकाछेपणानुकूलकृतिमांचैत्र इति बोधः । तत्तत्समभिव्याहारस्य तादृशबोधहेतुत्वान चैत्र कर्मका श्लेषानुकूलकृतिमांश्चैत्र इति धीरिति ।
विद्यानिवासपुत्रस्य न्यायवाचस्पतेरियम् ।
आख्यातवादव्याख्यानमानन्दयतु कोविदान् ॥ १ ॥ समाप्तेयमाख्यातवादरौद्री ।
(रामकृ० ) गुरुमतमाइ -- तत्रतत्रेति । सकर्मकधातुविशेषेष्वित्यर्थः । व्यापारविशेषः कर्तृत्वनियामको व्यापारविशेष: । अतएव मण्डनमतोक्तो विभागाद्यनुकूलत्यादिदोषोऽपि । अत आह । सर्वत्रेत्यादि । पचतीत्यादौ विक्लत्यनुकूलतेजः संयोगविशेषानाश्रयत्वेऽपि कृतिरूपव्यापारात्मक धात्वर्थाश्रयत्वमस्त्येवेति । न कर्तृत्वानुपपत्तिरिति । आख्यातार्थं विवेचयति — संख्येति । नश्यतीत्यादावाश्रयत्वार्थकत्वासम्भवादाह -- कचिदिति । तत्र च प्रतियोगित्वमर्थ इति प्रागेवोक्तम् । तादृशेति । इदं च वर्तमानयत्नाद्यनुभवस्य सार्वत्रिकत्वं शाब्दत्वं चाभिप्रेत्येति संक्षेपः ॥ १७ ॥
गोविन्दचरणद्वन्द्ववन्दनानन्दशालिना ।
आख्यातवादव्याख्येयं रामकृष्णेन निर्मिता ॥ १ ॥
इति रामकृष्णनिर्मिता व्याख्या समाप्ता । शुभमस्तु सर्वेषाम् ।