________________
१३ प्रन्थः] आख्यातशक्तिवादः।
२२१ मानत्वादिकं क्वचिदाश्रयत्वादिकमपि वा आख्यातार्थ इति गुरुमतमपि तत्र तत्र तादृशयत्नाननुभवप्रसङ्गादनुपादेयम् ॥ १७॥ इति महोपाध्याय--श्रीरघुनाथशिरोमणिभट्टाचार्यकृत
आख्यातवादः समाप्तः। नुकूलनोदनवता गच्छत्तीत्या... दानमपि बोध्यम् । व्यापारत्वस्याखण्डोपाधिश्वे मानाभावः। जनकत्वरूपस्य त्वननुगतत्वम् । एवमाश्रयत्वापेक्षया लाघवेन यत्न एवाख्यातशक्तिरित्याहुः। नन्वधिश्रयणादिक्रियाप्रचयः पाकः, तथा च कस्य. चित् क्रियायामतीतायामनागतायामपाक्षीत् , पक्ष्यतीति स्यादिति चेत् , न, अपाक्षीदित्यत्र चरमक्रियाध्वंसस्य पक्ष्यतीत्यत्रायक्रियाप्रागभावस्यैव भावात्, नियमतः तथैव तात्पर्यात् । यत्तु रत्नकोशमतम्-धात्वर्थो व्यापारः आख्यातार्थ उत्पादकता पचति पाकमुत्पादयतीत्यर्थः । तन्न, उत्पत्तेरापक्षणसम्बन्धरूपाया अननुगमात् ।
अत्रेदं बोध्यम्-ओदनः पक्ता यज्यत इत्यत्र पचधातोरोदनपाके लक्षणा। तथा चौदनपाकसमानकर्तृक-तदुत्तरभावि-भोजन-जन्यफलशाली ओदन इति बोधः।
केचित्तु ओदनोत्तर-प्रथमायाः कर्मत्वे लक्षणात् तत्पाकेन्वेति । ओदनस्तु भावनाया...पि विशेष्यत्वेनान्वेतीत्याहुः । एवं सति ओदनस्य भावनान्वयो न स्यात् । कर्मत्वाचनवरुद्धस्यैव तदन्वययोग्यत्वात् । इत्यनेन कर्मकर्तरि भियते कुशूलः स्वयमेवेत्यादौ कुशूलपदोत्तरप्रथमायाः कर्मत्वं व्यापारश्चार्थः । तेन कुशूल: स्वकर्मकभेदानुकूलव्यापारवान् स्वदृत्तिव्यापारजन्यभेदजन्यफलशाली इति बोधः । स्वतिकर्मत्वप्रत्ययेन यतरेणकर्तृत्वप्रत्यय एव यकोऽसाधुत्वम् । अतश्चैत्रः कुशलं मिद्यत इति न प्रयोगः। यद्वा-कुशलादिपदसममिव्याहृतधातोरेव कुशूलकर्मकभेदे कुशूलवृत्ति-व्यापार-जन्यभेदे च लक्षणा । आख्यातार्थः फलं व्यापारश्च । तेन कुशूलकर्मकभेदानुकूलच्यापारवान् कुशूलवृत्तिव्यापारजन्यभेदजन्यफलवांश्चेति बोध इति बोध्यम् ।
चैत्रं तन्दुलं पाचयति मैत्र इत्यादौ चैत्रपदोत्तरद्वितीयायाः कर्तृत्वलक्षणकर्मत्वमर्थः । णिचश्व व्यापारोऽर्थः। आश्रयत्वे आख्यातस्य दक्षणा णिजर्थः कृतिरेव वा...चेतनेव...हि तंत्र पाचयति पाचयन् इत्यादौ मिचो लक्षणा, माख्यातेन तत्रतत्र व्यापारवादि...बोध्यते णिचो निरर्थकत्वमित्याहुः । तथाच चैत्रकर्तृकस्तन्दुलकर्मको यः पाकस्तदनुकूलव्यापाराश्रयो मैत्र इत्यर्थः। यधपि चैत्रमैत्रोमय