________________
१८
वादार्थसंग्रहः
[३ भागः
कस्य सादृश्यावर्णेषु प्रयोगः । सादृश्यं च नित्यत्वेनैव । तत्र नित्यत्वं व्यवहारनित्यापेक्षमित्येके । आकाशवत्तनिष्ठशब्दस्यापि नित्यत्वं व्यञ्जकविरहाच्च न सर्वदोपलम्भ इत्यन्ये । ध्वनिशब्देन वैखरी वागुच्यते । स्फोटशब्देन मध्यमा वागुच्यते । अत एव सर्वे सर्वार्थवाचका इति प्रवादः। शब्दमात्रस्यार्थमात्रस्य च ब्रह्मोपादानकत्वेन ततो भेदाभावात् । अत एव नित्यः शब्दार्थसंबन्ध इति प्रवादः । अत एवोक्तं योगवाचस्पत्ये ' सर्वे च शब्दाः सर्वार्थाभिधाने समर्था ईश्वरसंकेतस्तु प्रकाशकः' इति । अत एवोक्तं न्यायवाचस्पत्ये 'सर्गादिभुवां महर्षिदेवतानामीश्वरेण साक्षात्कृतः संकेतस्तद्व्यवहारादस्मदादीनामपि सुग्रहः संकेत इति सर्वेषामर्थानां सर्वशब्दैः संबन्धश्च योगिप्रत्ययगम्य एव तेषामुभयरूपता पराप्रत्ययान्तात् (?)अतएवोक्तं हरिणा'व्यवहाराय नियमः संज्ञायाः संज्ञिनि कचित् । इति ।
कचित्संज्ञिनि संज्ञाया नियमो व्यवहारायेत्यर्थः । यथास्मदीयशास्त्रे वृद्धिशब्देनादैच एव ग्राह्या इति । पुरुषव्यापारात्मागवाचकस्य पुरुषव्यापारेण वाचकता कर्तुं न शक्यते शब्दार्थसंबन्धस्य नित्यत्वादिति तदाशयः । अत एव घटपदस्य घटे संकेते सति तदर्थबोधो भवत्येव । ननु व्यवहाराय नियम इत्ययुक्तं वृद्धिरादेजित्यादिसूत्राणां संकेतप्रकाशकत्वेन विधित्वस्यैव न्याय्यत्वादिति चेत्सत्यं, यथा विद्यमाने एव घटे नीलो घट इति नीलसंबन्धः पुरुषेण बोध्यते न तु तत्र नीलादियोगः क्रियते ततश्च नील एव न पीत इति नियमः फलति । तदुक्तं हरिणा
'वृद्धथादीनां च शास्त्रेऽस्मिन् शक्त्यवच्छेदलक्षणः ।
अकृत्रिमोऽभिसंबन्धो विशेषणविशेष्यवत् ॥' इति ॥ शत्तयवच्छेदः शक्तिसंकोचः । विशेषणविशेष्यवदित्यस्यार्थ उक्त एव । अत एव तत्र वाचकताबोधनेऽपि तदनुत्पादनान्न शब्दार्थसंबन्धस्यानित्यत्वं पाणिन्यादिसंकेतग्राह्यत्वात्संज्ञानामनित्यत्वप्रवादः । वृद्धिशब्दस्यांदक्ष्वेव प्रयोग इत्यत्र पाणिनीच्छाया एव नियामकत्वाच्च यदृच्छाशब्दत्वव्यवहारः। अत एव स्वेच्छया संज्ञाः क्रियन्ते इत्यपि प्रवादः । गौणमुख्यव्यवहारस्तु प्रसिद्धयप्रसिद्धिनिबन्धन एव । अत एवोक्तं हरिणा
सर्वशक्तेस्तु तस्यैव शब्दस्यानेकधर्मणः ।
प्रसिद्धिभेदागौणत्वं मुख्यत्वं चोपर्यते ।। इति ।। · गौणमुख्यार्थबोधकः शब्द एव प्रकरणादिरूपनिमित्ताभावाच न सर्वस्य