________________
१० ग्रन्थः]
वादसुधाकरः। ते च स्फोटा अष्टौ । यूपः सूप इत्यादौ वर्णभेदेनार्थभेदाद्वर्णा अपि वाचका इति वर्णस्फोटः । पदवाक्यस्फोटौ तूक्तावेव । पदादौ वर्णादयो नसंतीति अखण्डः पदवाक्यस्फोटः । वर्णपदवाक्यानां च जातिरेव वाचिकेति वर्णपदवाक्यजातिस्फोटः । अत्रेदं तत्वम्-परा पश्यंती मध्यमा वैख. रीति चतुर्विधा वाक् । तथाहि-भगवतो जगत्सिसृक्षया मायापुरुषावाविर्भवतः । तत्र त्रिगुणं यव्यक्तं तस्माद्विन्दुरूपाच्छब्दाद्ब्रह्मनामधेयं वर्णादिविशेषरहितं नादमात्रमुत्पद्यते तदेव जगदुपादानं परा वागित्युच्यते बिन्दुरवस्य (?) जगतो व्यञ्जनात् । तदुक्तं भारते
क्रियाशक्तिप्रधानायाः शब्दशब्दार्थकारणम् । प्रकृते बिन्दुरूपिण्याः शब्दब्रह्माभवत्परा ॥ . स्वरूपज्योतिरेवान्तः परा वागनपायिनी।
तस्यां दृष्टस्वरूपायामधिकारो निवर्तत इति ॥ श्रोत्रविषया वैखरी, हृदयदेशस्था मध्यमा, पश्यंती तु लोकव्यवहारातीता । योगिनां त्वस्ति तत्रापि प्रकृतिप्रत्ययविभागः । तदुक्तं भारते
प्राणवृत्तिमनुक्रम्य मध्यमा वाक् प्रवर्तते । प्राणवृत्तिमनुक्रम्य प्राणव्यापारमाश्रित्य ।
अविभागात्तु पश्यन्ती सर्वतः संहृतक्रमा । स्थानेषु विवृते वायौ कृतवर्णपरिग्रहा ॥
वैखरी वाक् प्रयोक्तणां प्राणवृत्तिनिबन्धनी । प्राणवृत्तिनिबन्धनीति प्राण एव स्थानाभिघातद्वारा तद्वत्त्वेनापि वर्तत इत्यर्थः। हरिरप्याह
वैखर्या मध्यमायाश्च पश्यन्त्याश्चैतदद्भुतम् । . अनेकतीर्थभेदायाः त्रय्या वाचः परं पदम् ॥ इति । अनेकतीर्थभेदायाः नामाख्यातादिभेदभिन्नायाः पराया योगिनामपि प्रकृतिप्रत्ययविभागो नास्तीति त्रय्या इत्युक्तम् । तथाच श्रुतिः'चत्वारि वाक् परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः । गुहा त्रीणि निहिता नेगयन्ति तुरीयं वाचो मनुष्या वदन्ति॥' इति । तथा च हरिवंशेऽपि
'अक्षराणामकारस्त्वं स्फोटस्त्वं वर्णसंश्रयः' इति । स्फुटत्यर्थोस्मादिति स्फोटो नित्यशब्दः। अत एवाक्षरशब्दस्य ब्रह्मवाच