________________
१० ग्रन्थः]
वादसुधाकरः। ग्रीसमवधानस्यैव तत्र व्यापारात् । तच्चेदं वर्तमानत्वादिलकारद्योत्यं वाच्यं वेति पक्षद्वयमपि क्षोदक्षममेव । कालस्य क्रियारूपतया क्रियामात्रस्य च धातुवाच्यत्वात् लकारो द्योतक एव । अथवा क्रियागतं वर्तमानत्वादि लकारवाच्यमेवेत्यन्यत्र विस्तरः।।
परोक्षत्वमतीतत्वमनद्यतनत्वं च लिडर्थः । परोक्षत्वं च वक्तृसाक्षात्काराविषयत्वम् 'व्यातेने किरणावलीमुदयनः' इति त्वयुक्तमेव । एवं 'चके सुबन्धुः सुजनैकबन्धुः ' इत्यपि । यत्तु णलुत्तमो वेति ज्ञापकादपरोक्षेऽपि लिड् भवतीति तन्न, चित्तविक्षेपादिना स्वक्रियायाः प्रत्यक्षत्वाभावे उत्तमप्रयोगात् यथा 'बहु जगदपुरस्तात्तस्य मत्ता किलाहम्' इति ।। .. यत्तूक्तं वर्द्धमानेन तिङन्तप्रतिरूपकोऽयं निपात इति तचिन्त्यम् । तथा सति धात्वर्थतावच्छेदकफलाश्रयत्वाभावेन किरणावलीमित्यस्य कर्मत्वानापत्तेः ।
इत्याख्यातार्थधात्वर्थनिर्णयः।
समासार्थनिर्णयः। समासस्थले विशिष्टस्यैवार्थवत्त्वं घटादिपदे घकारादीनामिव तत्राप्यवयवानां निरर्थकत्वादिति शाब्दिकाः। तार्किकास्त्ववयवशक्त्यैव निर्वाहमिच्छन्ति तन्मते समासे वृत्तिमत्त्वरूपार्थवत्त्वाभावात्प्रातिपदिकत्वानापत्तिः। अवयवार्थमादाय समुदायस्यार्थवत्त्वं तु न संभवति, एवमपि समुदायस्य शक्तिलक्षणयोरसंभवात् । अर्थवत्त्वं यत्र सूत्रे वृत्तिमत्त्वमेव । अन्यथा गवित्ययमाहेत्यादावपि प्रातिपदिकत्वापत्तिः। सिद्धान्ते तु अनुकार्याऽनुकरणयोरभेदविवक्षायां सादृश्याद्गोशब्दादीनामुपस्थापकत्वेऽपि वृत्त्योपस्थापकत्वाभावान्नार्थवत्त्वम् । नच तत्र समासग्रहणात्प्रातिपदिकत्वं, तथासति समासग्रहणस्य नियमार्थत्वाभावे वाक्यस्यापि प्रातिपदिकत्वापत्तौ सुब्लुगापत्तेः । मूलकेनोपदंशमित्यादौ कृग्रहणपरिभाषया प्रातिपदिकत्वापत्तेश्च । राजपुरुष इत्यादौ नामार्थयोरितिनियमाद्राजाभिन्नः पुरुष इति बोधापत्तिश्च । राजपदस्य राजसंबन्धिनि लक्षणया राजसंबन्ध्यभिन्नः पुरुष इति बोधाभ्युपगमे तु राज्ञीदासी इत्यत्र समानाधिकरणलक्षणपुंवद्भावापत्तिः । वृत्तेः प्राक् यत्र सामानाधिकरण्यं तत्रैव पुंवद्भावः इत्युक्तौ तु मृगीव चपला मृगचपलेत्यादावपि पुंवद्भावानापत्तेः । अत्र हि सदृशलक्षणया सामानाधिकरण्यम् । एवं चित्रगुरित्यादावपि चित्राऽभिन्ना गौरिति बोधवारणाय